तेषां स्तोत्रेण सन्तुष्टः स्नात्वा संपूज्य तां शुचिः
श्रीकृष्ण उवाच सुव्यक्तमद्य कापट्यवचनं ते वरानने
हे कृष्ण त्वं मम प्राणा जीवात्मेति च सन्ततम्
तस्मात्सर्वमलीकं ते वचनं जगदम्बिके
अस्माकं वचनं सत्यं यद्ब्रवीमि च तच्छ्रुतम्
शक्तो न रक्षितुं त्वां च यान्ति प्राणास्त्वया विना
सगुणा त्वं च कलया निर्गुणा स्वयमेव तु
ज्योतीरूपा निराकारा भक्तानुग्रहविग्रहा
महालक्ष्मीश्च वैकुण्ठे भारती च सतां प्रसूः
तुलसी पुण्यरूपा च गंगा भुवनपावनी 2.55.
गोलोके राधिका त्वं च सर्वगोपालकेश्वरी
शिवः शक्तस्त्वया शक्त्या शवाकारस्त्वया विना
नारायणस्त्वया लक्ष्म्या जगत्पाता जगत्पतिः
बिभर्त्ति सृष्टिं शेषश्च त्वां कृत्वा मस्तके भुवम्
शक्तिमच्च जगत्सर्वं शवरूपं त्वया विना
यथा मृदा घटं कर्त्तुं कुलालः शक्तिमान्सदा
त्वया विना जडश्चाहं सर्वत्र च न शक्तिमान्
वह्नौ त्वं दाहिकाशक्तिर्नाग्निश्शक्तस्त्वया विना
इत्येवं स्तवनं कृत्वा तां संप्राप जगत्प्रभुः 2.55.
सस्त्रीकं च जगत्सर्वं समभूच्छैलकन्यके
राजा जगाम गोलोकमिति स्तुत्वा हरिप्रियाम्
अचिराल्लभते भार्य्यां सुशीलां सुन्दरीं सतीम्
मृतायां दक्षकन्यायामाज्ञया परमात्मनः
पुरा दुर्वाससः शापान्निश्श्रीके देवतागणे
शृणोति वर्षमेकं च पुत्रार्थी लभते सुतम्
कार्त्तिकीपूर्णिमायां तु तां संपूज्य पठेत्तु यः
नारी शृणोति चेत्स्तोत्रं स्वामिसौभाग्यसंयुता ।। 2.55.
नित्यं पठति यो भक्त्या राधां संपूज्य भक्तितः
इति श्री ब्रह्मवैवर्त्ते महापुराणे द्वितीये प्रकृतिखण्डे नारदनारायणसंवादान्तर्गतहरगौरीसंवादे श्रीराधिकोपाख्याने राधापूजास्तोत्रादिकथनंनाम पञ्चपञ्चाशत्तमोऽध्यायः
श्रीपार्वत्युवाच अधुना कवचं ब्रूहि श्रोष्यामि त्वत्प्रसादतः