वैकुण्ठे च महालक्ष्मीर्वाणी नारायणोरसि
सर्वस्वर्गे स्वर्गलक्ष्मीर्देवदुःखविनाशिनी
सावित्री वेदमाता च कलया ब्रह्मवक्षसि
कलया तुलसी त्वं च गङ्गा भुवनपावनी
कला कलांशरूपा च शतरूपा शची दितिः
देव्यश्च मुनिपत्न्यश्च त्वत्कलाकलया शुभे
एवं कृत्वा परीहारं स्तुत्वा च कवचं पठेत्
एवं नित्यं पूजयेद्यो विष्णुतुल्यः स भारते
कार्त्तिकीपूर्णिमायां च राधां यः पूजयेच्छिवे
परमैश्वर्य्ययुक्तः स्यादिह लोके स पुण्यवान् 2.55.
आदावेवं क्रमेणैव रासे वृन्दावने वने
संपूजिता द्वितीये च धात्रा त्वेवं क्रमेण च
नारायणो महालक्ष्मीं प्राप संपूज्य भारतीम्
विष्णुः क्षीरोदशायी च प्राप सिन्धुसुतां तथा
त्वमेव दुर्गा सम्प्राप्ता पूजिता पुष्करे च सा
कामो रतिं च संप्राप धर्मो मूर्तिं पतिव्रताम्। देवाश्च मुनयश्चैव यां संपूज्य प्रतिव्रताम्
संप्रापुर्यद्वरेणैव धर्मकामार्थमोक्षकम्
श्रीमहेश्वर उवाच संसक्तस्य तुलस्यां च गोप्यां च तुलसीवने
सा संहृत्य स्वमूर्त्तीश्च कलाः सर्वाश्च लीलया
भ्रष्टैश्वर्य्याश्च निश्श्रीका भार्य्याहीना ह्युपद्रुताः 2.55.
तेषां स्तोत्रेण सन्तुष्टः स्नात्वा संपूज्य तां शुचिः
श्रीकृष्ण उवाच सुव्यक्तमद्य कापट्यवचनं ते वरानने
हे कृष्ण त्वं मम प्राणा जीवात्मेति च सन्ततम्
तस्मात्सर्वमलीकं ते वचनं जगदम्बिके
अस्माकं वचनं सत्यं यद्ब्रवीमि च तच्छ्रुतम्
शक्तो न रक्षितुं त्वां च यान्ति प्राणास्त्वया विना
सगुणा त्वं च कलया निर्गुणा स्वयमेव तु
ज्योतीरूपा निराकारा भक्तानुग्रहविग्रहा
महालक्ष्मीश्च वैकुण्ठे भारती च सतां प्रसूः
तुलसी पुण्यरूपा च गंगा भुवनपावनी 2.55.