आसनं वसनं पाद्यमर्घ्यं गन्धानुलेपनम्
नानाप्रकारनैवेद्यं ताम्बूलं वासितं जलम्
प्रत्येकं वेदमन्त्रेण दत्तं भक्त्या च भूभृता
रत्नसारविकारं च निर्मितं विश्वकर्मणा
अमूल्यरत्नखचितममूल्यं सूक्ष्ममेव च
सद्रत्नसारपा?स्थं सर्वतीर्थोदकं शुभम्
दक्षिणावर्त्तशङ्खस्थं सदूर्वापुष्पचन्दनम्
पार्थिवद्रव्यसंभूतमतीव सुरभीकृतम्
श्रीखण्डचूर्णं सुस्निग्धं कस्तूरीकुंकुमान्वितम्
वृक्ष निर्याससंयुक्तं पार्थिवद्रव्यसंयुतम् 2.55.
अन्धकारे भयहरममूल्यमणिशोभितम् ।। रत्नप्रदीपं शोभाढयं गृहाण परमेश्वरि
पारिजातप्रसूनं च गन्धचन्दनचर्चितम्
सुगन्धामलकीचूर्णं सुस्निग्धं सुमनोहरम्
अमूल्यरत्नखचितं केयूरवलयादिकम्
कालदेशोद्भवं पक्वफलं वै लड्डुकादिकम्
ताम्बूलं च वरं रम्यं कर्पूरादिसुवासितम्
अशनं रत्नपात्रस्थं सुस्वादु सुमनोहरम्
रत्नेन्द्रसारखचितं वह्निशुद्धांशुकान्वितम् ।। पुष्पचन्दनचर्चाढ्यं पर्य्यंकं देवि गृह्यताम्
एवं संपूज्य देवीं तां दद्यात्पुष्पाञ्जलित्रयम्
प्रागादिक्रमयोगेन दक्षिणावर्ततः प्रिये 2.55.
मालावतीं पूर्वकोणे वह्निकोणे च माधवीम्
पश्चिमे वै शशिकलां पारिजातां च मारुते
यूथिकामालतीपद्ममाला दद्याद् व्रते व्रती
त्वं देवी जगतां माता विष्णुमाया सनातनी
कृष्णप्रेममयी शक्तिः कृष्णे सौभाग्यरूपिणी
अद्य मे सफलं जन्म जीवनं सार्थकं मम
कृष्णवक्षसि या राधा सर्वसौभाग्यसंयुता
कृष्णप्रिया च गोलोके तुलसीकानने तु या
चन्द्रावली चन्द्रवने शतशृंगे सतीति च
पद्मावती पद्मवने कृष्णा कृष्णसरोवरे 2.55.