मुक्तापंक्तिप्रतिनिधिदन्तपंक्तिमनोहराम् वह्निशुद्धांशुकाधानां रत्नमालाविभूषिताम्
रत्नकेयूरवलयां रत्नमञ्जीररञ्जिताम् सूर्य्यप्रभाप्रतिकृतिगण्डस्थलविराजिताम्
अमूल्यरत्नखचितग्रैवेयकविभूषिताम् रत्नांगुलीयसंयुक्तां रत्नपाशकशोभिताम्
बिभ्रतीं कबरीभारं मालतीमाल्यशोभिताम्
गोपीभिः सुप्रियाभिश्च सेवितां श्वेतचामरैः
सिन्दूरबिन्दुना चारुसीमन्ताधःस्थलोज्ज्वलाम्
कृष्णसौभाग्यसंयुक्तां कृष्णप्राणाधिकां वराम्
महाविष्णुविधात्रीं च प्रदात्रीं सर्वसम्पदाम्
वैष्णवीं विष्णुमायां च कृष्णप्रेममयीं शुभाम् रासे रासेश्वरयुतां राधां रासेश्वरीं भजे
ध्यात्वा पुष्पं मूर्ध्नि दत्त्वा पुनर्ध्यायेज्जगत्प्रभुम् 2.55.
आसनं वसनं पाद्यमर्घ्यं गन्धानुलेपनम्
नानाप्रकारनैवेद्यं ताम्बूलं वासितं जलम्
प्रत्येकं वेदमन्त्रेण दत्तं भक्त्या च भूभृता
रत्नसारविकारं च निर्मितं विश्वकर्मणा
अमूल्यरत्नखचितममूल्यं सूक्ष्ममेव च
सद्रत्नसारपा?स्थं सर्वतीर्थोदकं शुभम्
दक्षिणावर्त्तशङ्खस्थं सदूर्वापुष्पचन्दनम्
पार्थिवद्रव्यसंभूतमतीव सुरभीकृतम्
श्रीखण्डचूर्णं सुस्निग्धं कस्तूरीकुंकुमान्वितम्
वृक्ष निर्याससंयुक्तं पार्थिवद्रव्यसंयुतम् 2.55.
अन्धकारे भयहरममूल्यमणिशोभितम् ।। रत्नप्रदीपं शोभाढयं गृहाण परमेश्वरि
पारिजातप्रसूनं च गन्धचन्दनचर्चितम्
सुगन्धामलकीचूर्णं सुस्निग्धं सुमनोहरम्
अमूल्यरत्नखचितं केयूरवलयादिकम्
कालदेशोद्भवं पक्वफलं वै लड्डुकादिकम्
ताम्बूलं च वरं रम्यं कर्पूरादिसुवासितम्
अशनं रत्नपात्रस्थं सुस्वादु सुमनोहरम्
रत्नेन्द्रसारखचितं वह्निशुद्धांशुकान्वितम् ।। पुष्पचन्दनचर्चाढ्यं पर्य्यंकं देवि गृह्यताम्
एवं संपूज्य देवीं तां दद्यात्पुष्पाञ्जलित्रयम्
प्रागादिक्रमयोगेन दक्षिणावर्ततः प्रिये 2.55.