एकदा तु प्रयागे च शिल्पं कृत्वा नृपस्य च 1.10.
घृताचीं नवरूपां च युवतिं तां तपस्विनीम्
दृष्ट्वा सकामः सहसा बभूव हृतचेतनः
ब्राह्मण उवाच मा मां स्मरसि रम्भोरु विश्वकर्माऽहमेव च
शापमोक्षं करिष्यामि भज मां तव सुन्दरि
द्विजस्य वचनं श्रुत्वा घृताची नवरूपिणी
गोपिकोवाच कथं त्वया संगता स्यां गंगातीरे च भारते
विश्वकर्मन्निदं पुण्यं कर्मक्षेत्रं च भारतम्
धर्मी मोक्षकृते जन्म प्रलभ्य तपसः फलात्
माया नारायणीशाना परितुष्टा च यं भवेत्
यो मूढो विषयासक्तो लब्धजन्मा च भारते 1.10.
सर्वं स्मरामि देवाहमहो जातिस्मरा पुरा
तपः करोमि मोक्षार्थं गङ्गातीरे सुपुण्यदे
अन्यत्र यत्कृतं पापं गंगायां तद्विनश्यति
तत्तु नारायणक्षेत्रे तपसा च विनश्यति
घृताचीवचनं श्रुत्वा विश्वकर्माऽनिलाकृतिः
रम्यायां मलयद्रोण्यां पुष्पतल्पे मनोरमे ।। । पुष्पचन्दनवातेन संततं सुरभीकृते
चकार सुखसम्भोगं तया स विजने वने
बभूव गर्भः कामिन्याः परिपूर्णः सुदुर्वहः
कृतशिक्षितशिल्पांश्व ज्ञानयुक्तांश्च शौनक
मालाकारान्कर्मकाराञ्छङ्खकारान्कुविन्दकान् 1.10.
तौ च तेभ्यो वरं दत्त्वा तान्संस्थाप्य महीतले
स्वर्णकारः स्वर्णचौर्याद्ब्राह्मणानां द्विजोत्तम
सूत्रकारो द्विजानां तु शापेन पतितो भुवि
व्यतिक्रमेण चित्राणां सद्यश्चित्रकरस्तथा
कश्चिद्वणिग्विशेषश्च संसर्गात्स्वर्णकारिणः
कुलटायां च शूद्रायां चित्रकारस्य वीर्य्यतः
अट्टालिकाकारबीजात्कुम्भकारस्य योषिति
कुम्भकारस्य बीजेन सद्यः कोटकयोषिति
सद्यः क्षत्रियबीजेन राजपुत्रस्य योषिति