तं दृष्ट्वा नृपतिस्त्रस्तो ह्यवरुह्य रथात्त्वरन्
परमात्मा ददौ तस्मै स्वदास्यं च शुभाशिषम्
राधाऽवरुह्य स्वरथात्कृष्णवक्षस्युवास सा
सम्भाषिता श्रीकृष्णेन सस्मितेन च पूजिता
आदौ राधां समुच्चार्य्य पश्चात्कृष्णं च माधवम्
विपर्य्ययं ये वदन्ति ये निन्दन्ति जगत्प्रसूम्
ते पच्यन्ते कालसूत्रे यावच्चन्द्रदिवाकरम्
इत्येवं कथितं दुर्गे राधिकाख्यानमुत्तमम्
नारायणी विष्णुमाया मूलप्रकृतिरीश्वरी
स्त्रीजातिष्वधिदेवी च परा जातिस्मरा वरा 2.54.
श्रीपार्वत्युवाच कथं जग्राह राधाया मन्त्रं वै वैष्णवो नृपः
किं विधानं च किं ध्यानं किं स्तोत्रं कवचं च किम्
श्रीमहेश्वर उवाच शीघ्रं प्राप्नोमि गोलोकं कस्याराधनतो मुने
इत्युक्तवन्तं राजेन्द्रमुवाच ब्राह्मणोत्तमः
तत्प्राणाधिष्ठातृदेवीं भज राधां परात्पराम्
इत्युक्त्वा राधिकामन्त्रं ददौ तस्मै षडक्षरम्
प्राणायामं भूतशुद्धिं मन्त्रन्यासं तथैव च
स्तोत्रं च कवचं तं च शिक्षयामास भक्तितः
ध्यानं च सामवेदोक्तं मंगलानां च मंगलम्
श्वेतचम्पकवर्णाभां कोटिचन्द्रसमप्रभाम् सुश्रोणीं सुनितम्बां च पक्वबिम्बाधरां वराम्।।2.55.
मुक्तापंक्तिप्रतिनिधिदन्तपंक्तिमनोहराम् वह्निशुद्धांशुकाधानां रत्नमालाविभूषिताम्
रत्नकेयूरवलयां रत्नमञ्जीररञ्जिताम् सूर्य्यप्रभाप्रतिकृतिगण्डस्थलविराजिताम्
अमूल्यरत्नखचितग्रैवेयकविभूषिताम् रत्नांगुलीयसंयुक्तां रत्नपाशकशोभिताम्
बिभ्रतीं कबरीभारं मालतीमाल्यशोभिताम्
गोपीभिः सुप्रियाभिश्च सेवितां श्वेतचामरैः
सिन्दूरबिन्दुना चारुसीमन्ताधःस्थलोज्ज्वलाम्
कृष्णसौभाग्यसंयुक्तां कृष्णप्राणाधिकां वराम्
महाविष्णुविधात्रीं च प्रदात्रीं सर्वसम्पदाम्
वैष्णवीं विष्णुमायां च कृष्णप्रेममयीं शुभाम् रासे रासेश्वरयुतां राधां रासेश्वरीं भजे
ध्यात्वा पुष्पं मूर्ध्नि दत्त्वा पुनर्ध्यायेज्जगत्प्रभुम् 2.55.