पारिजातद्रुमाकीर्णैर्वेष्टितं कामधेनुभिः 2.54.
अत्यूर्ध्वमपि वैकुण्ठात्पञ्चाशत्कोटियोजनम्
आत्माकाशसमं नित्यमस्माकं च सुदुर्लभम्
धर्मक्षुद्रविराट्संघो गङ्गा लक्ष्मीः सरस्वती
सनत्कुमारः स्कन्दश्च नरनारायणावृषी
पवनो वरुणश्चन्द्रः सूर्य्यो रुद्रो हुताशनः
एभिर्दृष्टश्च गोलोको नान्यैर्दृष्टः कदाचन
रत्नमालाकिरीटैश्च भूषितं रत्नभूषणैः
चन्दनोक्षितसर्वाङ्गं किशोरं गोपरूपिणम्
शरत्पार्वणचन्द्रास्यमीषद्धास्यं मनोहरम्
स्वेच्छामयं परं ब्रह्म निर्गुणं प्रकृतेः परम् 2.54.
प्रियैर्द्वादशगोपालैः सेवितं श्वेतचामरैः
पीडितैः कामबाणैश्च शश्वत्सुस्थिरयौवनैः
रासमण्डलमध्यस्थं श्रीकृष्णं च परात्परम्
स्तुतं चतुर्भिवेदैश्च मूर्तिमद्भिर्मनोहरैः
श्रुतवन्तं च सङ्गीतं यन्त्रवक्त्रोत्थितं शिवे
शश्वत्पूजितपादाब्जमखण्डतुलसीदलैः
दूर्वाभिरक्षताभिश्च पारिजातप्रसूनकैः
सुप्रसन्नं स्वतन्त्रं च सर्वकारणकारणम्
सर्वमङ्गलरूपं च सर्वमङ्गलकारणम् 2.54.
तं दृष्ट्वा नृपतिस्त्रस्तो ह्यवरुह्य रथात्त्वरन्
परमात्मा ददौ तस्मै स्वदास्यं च शुभाशिषम्
राधाऽवरुह्य स्वरथात्कृष्णवक्षस्युवास सा
सम्भाषिता श्रीकृष्णेन सस्मितेन च पूजिता
आदौ राधां समुच्चार्य्य पश्चात्कृष्णं च माधवम्
विपर्य्ययं ये वदन्ति ये निन्दन्ति जगत्प्रसूम्
ते पच्यन्ते कालसूत्रे यावच्चन्द्रदिवाकरम्
इत्येवं कथितं दुर्गे राधिकाख्यानमुत्तमम्
नारायणी विष्णुमाया मूलप्रकृतिरीश्वरी
स्त्रीजातिष्वधिदेवी च परा जातिस्मरा वरा 2.54.