यथा भक्तिर्मम भवेच्छ्रीकृष्णे परमात्मनि 2.54.
नह्यम्मयानि तीर्थानि न देवा मृच्छिलामयाः
सर्वेषामाश्रमाणां च द्विजातेर्जातिरुत्तमा
कृष्णमन्त्रोपासकश्च कृष्णभक्तिपरायणः
त्वां वैष्णवं द्विजश्रेष्ठं महाज्ञानार्णवं परम्
अधुनाऽहं गलत्कुष्ठी तव शापान्महामुने
सुतपा उवाच सा च याननुगृह्णाति तेभ्यो भक्तिं ददाति च
यांश्च माया मोहयति तेभ्यस्तां न ददाति च
कृष्णप्रेममयीं शक्तिं प्राणाधिष्ठातृदेवताम्
शीघ्रं यास्यासि गोलोकं तदनुग्रहसेवया
ध्यानसाध्यं दुराराध्यं भक्ताः संसेव्य निर्गुणम् 2.54.
कृपामयीं च संसेव्य भक्ता यान्त्यचिरेण वै
सहस्रवर्षपर्य्यन्तं विप्रपादोदकं पिब
विप्रपादोदकक्लिन्ना यावत्तिष्ठति मेदिनी
पृथिव्यां यानि तीर्थानि तानि तीर्थानि सागरे
विप्रपादोदकं चैव पापव्याधिविनाशनम्
विप्रो मानवरूपी च देवदेवो जनार्दनः
इत्येवमुक्त्वा विप्रश्च गृहीत्वा तस्य पूजनम्
भक्त्या च बुभुजे राजा विप्रपादोदकं शिवे
संवत्सरे व्यतीते तु निर्मुक्तो व्याधितो नृपः
राधापूजाविधानं च स्तोत्रं च कवचं मनुम् 2.54.
राजन्निर्गम्यतां शीघ्रमित्युक्त्वा तपसे मुनिः
रुरुदुर्बान्धवाः सर्वे त्रिरात्रं शोकमूर्च्छिताः
सुयज्ञः पुष्करं गत्वा चक्रे वै दुष्करं तपः
तदा ददर्श गगने रथस्थां परमेश्वरीम्
तत्याज मानुषं देहं दिव्यां मूर्त्तिं दधार ह
नृपं नीत्वा च गोलोकं तत्र चैषा ययौ तदा
वेष्टितं पर्वतेनैव शतशृङ्गेण चारुणा
गोगोपगोपीनिकरैः शोभितं परिसेवतैः
नानाचित्रविचित्रैश्च राजितं परिशोभितम्