तदंशस्तत्समः शश्वद्यथा वह्नेः स्फुलिङ्गवत् 2.54.
कल्पे कल्पे जितास्ते ते नश्वरा मृत्युकन्यया
कतिधा ब्रह्मणां पातो यन्निमेषण भूमिप
चकार वीर्याधानं च पुण्ये वृन्दावने वने
गर्भं दधार सा राधा यावद्वै ब्रह्मणो वयः
चुकोप डिम्भं सा दृष्ट्वा हृदयेन विदूयता
त्यक्त्वाऽपत्य महादेवी रुरोद च मुहुर्मुहुः
बभूव तस्माडिम्भाच्च सर्वाधारो महाविराट्
सुयज्ञ उवाच शापो मे वररूपश्चाप्यभवद्भक्तिकारणम्
सुदुर्लभा हरेर्भक्तिः सर्वमङ्गलमङ्गला
यथा भक्तिर्मम भवेच्छ्रीकृष्णे परमात्मनि 2.54.
नह्यम्मयानि तीर्थानि न देवा मृच्छिलामयाः
सर्वेषामाश्रमाणां च द्विजातेर्जातिरुत्तमा
कृष्णमन्त्रोपासकश्च कृष्णभक्तिपरायणः
त्वां वैष्णवं द्विजश्रेष्ठं महाज्ञानार्णवं परम्
अधुनाऽहं गलत्कुष्ठी तव शापान्महामुने
सुतपा उवाच सा च याननुगृह्णाति तेभ्यो भक्तिं ददाति च
यांश्च माया मोहयति तेभ्यस्तां न ददाति च
कृष्णप्रेममयीं शक्तिं प्राणाधिष्ठातृदेवताम्
शीघ्रं यास्यासि गोलोकं तदनुग्रहसेवया
ध्यानसाध्यं दुराराध्यं भक्ताः संसेव्य निर्गुणम् 2.54.
कृपामयीं च संसेव्य भक्ता यान्त्यचिरेण वै
सहस्रवर्षपर्य्यन्तं विप्रपादोदकं पिब
विप्रपादोदकक्लिन्ना यावत्तिष्ठति मेदिनी
पृथिव्यां यानि तीर्थानि तानि तीर्थानि सागरे
विप्रपादोदकं चैव पापव्याधिविनाशनम्
विप्रो मानवरूपी च देवदेवो जनार्दनः
इत्येवमुक्त्वा विप्रश्च गृहीत्वा तस्य पूजनम्
भक्त्या च बुभुजे राजा विप्रपादोदकं शिवे
संवत्सरे व्यतीते तु निर्मुक्तो व्याधितो नृपः