तद्वन्दनं तत्स्मरणं तस्य ध्यानं तदर्चनम् 2.54.
एतत्ते कथितं सर्वं यद्यन्मृत्युञ्जयाच्छ्रुतम्
सुयज्ञ उवाच ब्रह्मणोऽन्ते विलीनश्च सत्त्वं मृत्युञ्जये शिवे
शिवो लीनो निर्गुणे च श्रीकृष्णे प्राकृते लये
कथं प्रसूर्महाविष्णोर्मूलप्रकृतिरीश्वरी
सुतपा उवाच संहर्त्री सर्वलोकानां ब्रह्मादीनां नराधिप
कतिधा मृत्युकन्यानां ब्रह्मणां कोटिशो लये ।। कालेन लीनः शम्भुश्च सत्त्वरूपे च निर्गुणे
मृत्युकन्या जिता शश्वच्छिवेन गुरुणा मम
शम्भुर्नारायणस्यैव प्रकृतेश्च नराधिप
स्वयं पुमान्निर्गुणश्च कालेन सगुणः स्वयम्
तदंशस्तत्समः शश्वद्यथा वह्नेः स्फुलिङ्गवत् 2.54.
कल्पे कल्पे जितास्ते ते नश्वरा मृत्युकन्यया
कतिधा ब्रह्मणां पातो यन्निमेषण भूमिप
चकार वीर्याधानं च पुण्ये वृन्दावने वने
गर्भं दधार सा राधा यावद्वै ब्रह्मणो वयः
चुकोप डिम्भं सा दृष्ट्वा हृदयेन विदूयता
त्यक्त्वाऽपत्य महादेवी रुरोद च मुहुर्मुहुः
बभूव तस्माडिम्भाच्च सर्वाधारो महाविराट्
सुयज्ञ उवाच शापो मे वररूपश्चाप्यभवद्भक्तिकारणम्
सुदुर्लभा हरेर्भक्तिः सर्वमङ्गलमङ्गला
यथा भक्तिर्मम भवेच्छ्रीकृष्णे परमात्मनि 2.54.
नह्यम्मयानि तीर्थानि न देवा मृच्छिलामयाः
सर्वेषामाश्रमाणां च द्विजातेर्जातिरुत्तमा
कृष्णमन्त्रोपासकश्च कृष्णभक्तिपरायणः
त्वां वैष्णवं द्विजश्रेष्ठं महाज्ञानार्णवं परम्
अधुनाऽहं गलत्कुष्ठी तव शापान्महामुने
सुतपा उवाच सा च याननुगृह्णाति तेभ्यो भक्तिं ददाति च
यांश्च माया मोहयति तेभ्यस्तां न ददाति च
कृष्णप्रेममयीं शक्तिं प्राणाधिष्ठातृदेवताम्
शीघ्रं यास्यासि गोलोकं तदनुग्रहसेवया