घृताची कारुमुक्त्वा च साऽगच्छत्काममन्दिरम् 1.10.
सा भारते च कामोक्त्या गोपस्य मदनस्य च
जातिस्मरा तत्प्रसूता बभूव च तपस्विनी
तपश्चकार तपसा तप्तकाञ्चनसन्निभा
वीर्येण सुरकारोश्च नव पुत्रान्प्रसूय सा
शौनक उवाच पुत्रान्नव प्रसूता च कुत्र वा कति वासरान्
सौतिरुवाच जगाम ब्रह्मणः स्थानं शोकेन हृतचेतनः
नत्वा स्तुत्वा च ब्रह्माणं कथयामास तां कथाम्
स एव ब्राह्मणो भूत्वा भुवि कारुर्बभूव ह
शिल्पं च कारयामास सर्वेभ्यः सर्वतः सदा । विचित्रं विविधं शिल्पमाश्चर्य्यं सुमनोहरम्
एकदा तु प्रयागे च शिल्पं कृत्वा नृपस्य च 1.10.
घृताचीं नवरूपां च युवतिं तां तपस्विनीम्
दृष्ट्वा सकामः सहसा बभूव हृतचेतनः
ब्राह्मण उवाच मा मां स्मरसि रम्भोरु विश्वकर्माऽहमेव च
शापमोक्षं करिष्यामि भज मां तव सुन्दरि
द्विजस्य वचनं श्रुत्वा घृताची नवरूपिणी
गोपिकोवाच कथं त्वया संगता स्यां गंगातीरे च भारते
विश्वकर्मन्निदं पुण्यं कर्मक्षेत्रं च भारतम्
धर्मी मोक्षकृते जन्म प्रलभ्य तपसः फलात्
माया नारायणीशाना परितुष्टा च यं भवेत्
यो मूढो विषयासक्तो लब्धजन्मा च भारते 1.10.
सर्वं स्मरामि देवाहमहो जातिस्मरा पुरा
तपः करोमि मोक्षार्थं गङ्गातीरे सुपुण्यदे
अन्यत्र यत्कृतं पापं गंगायां तद्विनश्यति
तत्तु नारायणक्षेत्रे तपसा च विनश्यति
घृताचीवचनं श्रुत्वा विश्वकर्माऽनिलाकृतिः
रम्यायां मलयद्रोण्यां पुष्पतल्पे मनोरमे ।। । पुष्पचन्दनवातेन संततं सुरभीकृते
चकार सुखसम्भोगं तया स विजने वने
बभूव गर्भः कामिन्याः परिपूर्णः सुदुर्वहः
कृतशिक्षितशिल्पांश्व ज्ञानयुक्तांश्च शौनक