धर्मेण दत्तं पुत्राय प्रीत्या नारायणाय च
नारदो व्यासदेवाय प्रददौ जाह्नवीतटे
मह्यं ददौ सिद्धक्षेत्रे पुण्यदेशे मनोहरम्
अष्टादशसहस्रं तु व्यासेनेदं पुराणकम् तत्फलं लभते नूनमध्यायश्रवणेन च
शौनक उवाच सर्वं कथय संव्यस्य ब्रह्मखण्डमनुत्तमम्
सौतिरुवाच हरिं देवान्द्विजान्नत्वा धर्मान्वक्ष्ये सनातनान्
यच्छ्रुतं व्यासवक्त्रेण ब्रह्मखण्डमनुत्तमम्
ज्योतिःसमूहं प्रलये पुराऽऽसीत्केवलं द्विज
स्वेच्छामयस्य च विभोस्तज्ज्योतिरुज्ज्वलं महत्
तेषामुपरि गोलोकं नित्यमीश्वरवद् द्विज
तेजःस्वरूपं सुमहद्रत्नभूमिमयं परम्
योगेन धृतमीशेन चान्तरिक्षस्थितं वरम्
सद्रत्नरचितासंख्यमन्दिरैः परिशोभितम्
तदधो दक्षिणे सव्ये पञ्चाशत्कोटियोजनान् 1.2.
कोटियोजनविस्तीर्णं वैकुण्ठं मण्डलाकृति
चतुर्भुजैः पार्षदैश्च जरामृत्य्वादिवर्जितम्
लये शून्यं च सृष्टौ च सपार्षदशिवान्वितम्
परमाह्लादकं शश्वत्परमानन्दकारकम्
तदेवानन्दजनकं निराकारं परात्परम्
नवीननीरदश्यामं रक्तपङ्कजलोचनम्
कोटिकन्दर्पलावण्यं लीलाधाम मनोरमम्
सद्रत्नभूषणौघेन भूषितं भक्तवत्सलम्
श्रीवत्सवक्षःसंभ्राजत्कौस्तुभेन विराजितम्
रत्नसिंहासनस्थं च वनमालाविभूषितम् 1.2.
स्वेच्छामयं सर्वबीजं सर्वाधारं परात्परम्
कोटिपूर्णेन्दुशोभाढ्यं भक्तानुग्रहकारकम्
रासमण्डलमध्यस्थं शान्तं रासेश्वरं वरम्
परमानन्दबीजं च सत्यमक्षरमव्ययम् ।। । सर्वसिद्धेश्वरं सर्वसिद्धिरूपं च सिद्धिदम्
प्रकृतेः परमीशानं निर्गुणं नित्यविग्रहम्
सत्यं स्वतन्त्रमेकं च परमात्मस्वरूपकम्