चतुर्दशेन्द्रावच्छिन्नं ब्रह्मणो दिनमुच्यते
कालरात्रिश्च सा ज्ञेया वेदेषु परिकीर्त्तिता
सप्तकल्पे चिरंजीवी मार्कण्डेयो महातपाः
उत्थितेनैव सहसा सङ्कर्षणमुखाग्निना
ब्रह्मरात्रिव्यतीते तु पुनश्च ससृजे विधिः 2.54.
देवाश्च मनवश्चैव तत्र दग्धा नरादयः
वर्षं द्वादशमासैश्च ब्रह्मसम्बन्धि चैव हि दैनंदिनस्तु प्रलयो वेदेषु परिकीर्त्तितः
मोहरात्रिश्च सा प्रोक्ता वेदविद्भिः पुरातनैः
आदित्या वसवो रुद्रा मनवो मानवादयः
मार्कण्डेयो लोमशश्च पेचकश्चिरजीविनः
नाडीजंघो बकश्चैव सर्वे नष्टाश्च तत्र वै
ब्रह्मलोकं ययुः सर्वे ब्रह्मपुत्रादयस्तथा
एवं शताब्दपर्य्यन्तं परमायुः प्रजापतेः
देवमाता च सावित्री वेदा धर्म्मादयस्तथा 2.54.
नारायणे प्रलीनाश्च विश्वस्था वैष्णवास्तथा
मृत्युञ्जये महादेवे प्रलीनः स तमो गुणः
नारायणस्य शम्भोश्च महाविष्णोश्च निश्चितम्
कृष्णो निमेषरहितो निर्गुणः प्रकृते परः
निर्गुणस्य च नित्यस्य चाद्यन्तरहितस्य च
षष्टिदण्डात्मिकास्तस्या वासरश्च प्रकीर्त्तितः
एवं गते शताब्दे च श्रीकृष्णे प्रकृतेर्लयः
सर्वान्संहृत्य सा चैका महाविष्णोः प्रसूश्च या
बुद्ध्यधिष्ठातृदेवी च श्रीकृष्णस्यैव निर्गुणाम् 2.54.
प्राणाधिष्ठातृदेवीं च प्रेम्णा प्राणाधिकां वराम्
नारायणश्च शम्भुश्च संहृत्य स्वगणान्बहून्
गोपा गोप्यश्च गावश्च सवत्साश्च नराधिप । महाविष्णौ विलीनाश्च ते सर्वे क्षुद्रविष्णवः
प्रकृतिर्योगनिद्रा च श्रीकृष्णनयनद्वये
प्रकृतेर्वासरो यावन्मितः कालः प्रकीर्त्तितः
अमूल्य रत्नतल्पे च वह्निशुद्धांशुकार्चिते
पुनः प्रजागरे तस्य सर्वसृष्टिर्भवेत्पुनः