दृष्ट्वा मुक्तं स्वपुत्रं च प्रहष्टोऽभूत्प्रजापतिः
यतः स्वयम्भुपुत्रोऽयमतः स्वायम्भुवो मनुः
राजा वदान्यो धर्मिष्ठः स्वायम्भुवसमो महान्
तौ तृतीयौ चतुर्थौ च वैष्णवौ तापसोत्तमौ
धर्मिष्ठानां वरिष्ठश्च रैवतः पञ्चमो मनुः 2.54.
श्राद्धदेवः सूर्यसुतो वैष्णवः सप्तमो मनुः
नवमो दक्षसावर्णिर्विष्णुव्रतपरायणः
ततश्च धर्मसावर्णिर्मनुरेकादशः स्मृतः
ज्ञानी च रुद्रसावर्णिर्मनुश्च द्वादशः स्मृतः
चतुर्दशो महाज्ञानी चन्द्रसावर्णिरेव च
चतुर्दशेन्द्रावच्छिन्नं ब्रह्मणो दिनमुच्यते
कालरात्रिश्च सा ज्ञेया वेदेषु परिकीर्त्तिता
सप्तकल्पे चिरंजीवी मार्कण्डेयो महातपाः
उत्थितेनैव सहसा सङ्कर्षणमुखाग्निना
ब्रह्मरात्रिव्यतीते तु पुनश्च ससृजे विधिः 2.54.
देवाश्च मनवश्चैव तत्र दग्धा नरादयः
वर्षं द्वादशमासैश्च ब्रह्मसम्बन्धि चैव हि दैनंदिनस्तु प्रलयो वेदेषु परिकीर्त्तितः
मोहरात्रिश्च सा प्रोक्ता वेदविद्भिः पुरातनैः
आदित्या वसवो रुद्रा मनवो मानवादयः
मार्कण्डेयो लोमशश्च पेचकश्चिरजीविनः
नाडीजंघो बकश्चैव सर्वे नष्टाश्च तत्र वै
ब्रह्मलोकं ययुः सर्वे ब्रह्मपुत्रादयस्तथा
एवं शताब्दपर्य्यन्तं परमायुः प्रजापतेः
देवमाता च सावित्री वेदा धर्म्मादयस्तथा 2.54.
नारायणे प्रलीनाश्च विश्वस्था वैष्णवास्तथा
मृत्युञ्जये महादेवे प्रलीनः स तमो गुणः
नारायणस्य शम्भोश्च महाविष्णोश्च निश्चितम्
कृष्णो निमेषरहितो निर्गुणः प्रकृते परः
निर्गुणस्य च नित्यस्य चाद्यन्तरहितस्य च
षष्टिदण्डात्मिकास्तस्या वासरश्च प्रकीर्त्तितः