चतुर्युगं परिमितं नरमानक्रमेण च
कृतं युगं नृमानेन संख्याविद्भिः प्रकीर्त्तितम्
त्रेतायुगं परिमितं कालविद्भिः प्रकीर्त्तितम्
परिमाणं द्वापरस्य संख्याविद्भिरितीरितम् नृमानाद्वै कलियुगं विदुः कालविदो बुघाः
तत्र सप्त च वारा वै तिथयः षोडश स्मृताः 2.54.
तथा भ्रमति तच्चक्रमेवमेवं चतुर्युगम्
एवं क्रमाद्भ्रमन्त्येव मनवश्च चतुर्दश
पञ्चविंशतिसाहस्रं षष्ट्यन्तशतपञ्चकम्
आख्यानं च मनूनां च धर्मिष्ठानां नराधिप
आद्यो मनुर्ब्रह्मपुत्रः शतरूपा पतिव्रता
स्वायम्भुवः शम्भुशिष्यो विष्णुव्रतपरायणः
राजसूयसहस्रं च चक्रे वै नर्मदातटे
गोमेधं च चतुर्लक्षं विधिवन्महदद्भुतम्
पञ्चलक्षगवां मांसैः सुपक्वैर्घृतसंस्कृतैः
अमूल्यरत्नलक्षं च दशकोटिसुवर्णकम् ।।2.54.
वह्निशुद्धानि वस्त्राणि मुनीन्द्राणां च लक्षकम् त्रिलक्षमश्वरत्नं च शातकुंभविभूषितम्
सहस्रं रथरत्नं च शिबिकालक्षमेव च त्रिकोटिस्वर्णभूषाश्च कर्पूरादिसुवासितम्
ताम्बूलं सुविचित्रं च त्रिकोटिस्वर्णतल्पकम्
वह्निशुद्धांशुकैश्चित्रै राजितं माल्यजालकैः
संप्राप्य शंकराज्ज्ञानं कृष्णमंत्रं सुदुर्लभम्
दृष्ट्वा मुक्तं स्वपुत्रं च प्रहष्टोऽभूत्प्रजापतिः
यतः स्वयम्भुपुत्रोऽयमतः स्वायम्भुवो मनुः
राजा वदान्यो धर्मिष्ठः स्वायम्भुवसमो महान्
तौ तृतीयौ चतुर्थौ च वैष्णवौ तापसोत्तमौ
धर्मिष्ठानां वरिष्ठश्च रैवतः पञ्चमो मनुः 2.54.
श्राद्धदेवः सूर्यसुतो वैष्णवः सप्तमो मनुः
नवमो दक्षसावर्णिर्विष्णुव्रतपरायणः
ततश्च धर्मसावर्णिर्मनुरेकादशः स्मृतः
ज्ञानी च रुद्रसावर्णिर्मनुश्च द्वादशः स्मृतः
चतुर्दशो महाज्ञानी चन्द्रसावर्णिरेव च