सर्वाधारो महान्विष्णुः कालभीतः स शङ्कितः
एवं च सर्वविश्वस्था ब्रह्मविष्णुशिवादयः
सा सर्वबीजरूपा च मूलप्रकृतिरीश्वरी
एवं सर्वे कालभीताः प्रकृतिः प्राकृतास्तथा
इत्येवं कथितं सर्वं महाज्ञानं सुदुर्लभम्
इति श्रीब्रह्मवैवर्त्ते महापुराणे द्वितीये प्रकृतिखण्डे नारदनारायणसंवादान्तर्गतहरगौरीसंवादे राधोपाख्याने सुयज्ञं प्रत्यतिथ्युपदेशो नाम त्रिपञ्चाशत्तमोऽध्यायः
राजोवाच कालभीतस्य कति च कालमाया मुनीश्वर
क्षुद्रस्य कतिचित्कालं ब्रह्मणः प्रकृतेस्तथा
अन्येषां वै जनानां च प्राकृतानां परं वयः
विश्वानामूर्ध्वभागे च कस्स्याद्वा लोक एव सः
मुनिरुवाच तथा नित्यं डिम्बरूपश्श्रीकृष्णेच्छासमुद्भवः
जलेन परिपूर्णश्च कृष्णस्य मुखबिन्दुना
प्रकृत्या सह युक्तस्य कलया निजया नृप
प्रकृतिर्गर्भसंर्युक्तडिम्बोद्भूतस्य भूमिप
वनमालाधरः श्रीमाञ्छोभितः पीतवाससा 2.54.
आत्माऽऽकाशसमो नित्यो विस्तृतश्चन्द्रबिम्बवत्
आकाशवत्सुविस्तारो रत्नौघैश्च विनिर्मितः
लक्ष्मीसरस्वतीगङ्गातुलसीपतिरीश्वरः
सर्वेशः सर्वसिद्धेशो भक्तानुग्रहविग्रहः
चतुर्भुजश्च वैकुण्ठे गोलोके द्विभुजः स्वयम्
गोलोको वर्त्तुलाकारो वरिष्ठस्सर्वलोकतः
रत्नेन्द्रसारखचितैः स्तम्भसोपानचित्रितैः
नानाचित्रविचित्रैश्च शिबिरैश्च विराजितः विरजासरिदाकीर्णैश्शतशृंगैस्सुवेष्टितः
सरिदर्धप्रमाणेन दैर्घ्येण च ततेन च
तदर्द्धमानविलसद्रासमण्डलमण्डितः 2.54.
यथा पंकजमध्ये च कर्णिका सुमनोहरा
रासेश्वर्य्या राधिकया संयुक्तः सन्ततं नृप
वह्निशुद्धांशुकाधानो रत्नभूषणभूषितः
रत्नसिंहासनस्थश्च रत्नच्छत्रेण शोभितः
भूषिताभिश्च गोपीभिर्मालाचन्दनचर्चितः