नृपस्य वचनं श्रुत्वा जहास मुनिपुङ्गवः
अतिथिरुवाच कश्यपस्य सुताः सर्वे प्राप्ता देवत्वमीप्सितम्
तेषु त्वष्टा महाज्ञानी चकार परमं तपः
सिषेवे ब्राह्मणार्थं च देवदेवं हरिं परम्
ततो बभूव तेजस्वी विश्वरूपस्तपोधनः
मातामहेभ्यो दैत्येभ्यो दत्तवन्तं घृताहुतिम्
विश्वरूपस्य तनयो विरूपो मत्पिता नृप
महादेवो मम गुरुर्विद्याज्ञानमनुप्रदः
तच्चिन्तयामि पादाब्जं न मे वाञ्छा ऽस्ति सम्पदि 2.53.
तेन दत्तं न गृह्णामि विना तत्सेवनं शुभम्
भक्तिव्यवहितं मिथ्याभ्रममेव तु नश्वरम्
न मन्ये जलरेखेति नृपत्वं केन गण्यते
लालसां विष्णुभक्तिं ते संप्रापयितुमागतः
समुद्धृतश्च पतितो घोरे निम्ने भवार्णवे
ते पुनन्त्युरुकालेन कृष्णभक्ताश्च दर्शनात्
पुत्रे न्यस्य प्रियां साध्वीं गच्छ वत्स वनं द्रुतम्
श्रीकृष्णं भज राधेशं परमात्मा नमीश्वरम्
दिक्पालाश्च दिगीशाश्च भ्रमन्त्येवास्य मायया ।। 2.53.
निशापतिः शशी शश्वत्सस्यसुस्निग्धताकरः
काले वर्षति शक्रश्च दहत्यग्निश्च कालतः
कालः संहरते काले काले सृजति पाति च
स्वदेशे पर्वताश्चैव स्वाः पातालाः स्वदेशतः
शैलसागरसंयुक्ताः पातालाः सप्त चैव हि
सन्त्येव प्रतिविध्यण्डे ब्रह्मविष्णुशिवादयः
आपातालाद्ब्रह्मलोकपर्य्यन्तं डिम्बरूपकम्
नाभिपद्मे विराड्विष्णोः क्षुद्रस्य जलशायिनः
एवं सोऽपि शयानस्स्याज्जलतल्पे सुविप्लुते
कालभीतश्च कालेशं कृष्णमात्मानमीश्वरम् ।। । महाविष्णोर्लोमकूपसाधारः सोऽस्ति विस्तृते 2.53.
महाविष्णोर्गात्रलोम्नां ब्रह्माण्डानां च भूमिप
महाविष्णुः प्राकृतिकः सोऽपि डिम्बोद्भवः सदा