गते प्राकृतिके घोरे महति प्रलये तथा
षष्टिवर्षसहस्राणि विष्ठायां च कृमिर्भवेत्
सप्तजन्मसु शुद्धश्च गलत्कुष्ठी नपुंसकः
लब्ध्वैवं सप्त जन्मानि महापापी भवेच्छुचिः ।। 2.52.
मुनय ऊचुः एभिस्तुल्यो भवेद्दोषोऽप्यतिथीनां पराभवे
प्रणामं कुरु विप्रेन्द्रं गृहं प्रापय निश्चितम्
वनं गच्छ महाराज तपस्यां कुरु सत्वरम्
इत्युक्त्वा मुनयः सर्वे ययुस्तूर्णं स्वमन्दिरम्
इति श्रीब्रह्मवैवर्त्ते महापुराणे द्वितीये प्रकृतिखण्डे नारदनारायणसंवादान्तर्गतहरगौरीसंवादे राधोपाख्याने सुयज्ञोपाख्याने कर्मविपाको नाम द्विपञ्चाशत्तमोऽध्यायः
श्रीपार्वत्युवाच किं चकार नृपश्रेष्ठो ब्रह्मशापेन विह्वलः
अतिथिर्ब्राह्मणो वाऽपि किं चकार तदा प्रभो
महेश्वर उवाच प्रेरितश्च वसिष्ठेन धर्मिष्ठेन पुरोधसा
पपात दण्डवद्भूमौ पादयोर्ब्राह्मणस्य च
सस्मितं ब्राह्मणं दृष्ट्वा त्यक्तमन्युं कृपामयम्
राजोवाच किंनामा वाऽपि तद्ब्रूहि क्व वासः कथमागतः
विप्ररूपी स्वयं विष्णुर्गूढः कपटमानुषः
को वा गुरुस्ते भगवन्निष्टदेवश्च भारते
गृहाण राज्यं निखिलमैश्वर्य्यं कोशमेव च
सप्तसागरसंयुक्तां सप्तद्वीपां वसुन्धराम् 2.53.
मया भृत्येन शाधि त्वं राजेन्द्रो भव भारते
नृपस्य वचनं श्रुत्वा जहास मुनिपुङ्गवः
अतिथिरुवाच कश्यपस्य सुताः सर्वे प्राप्ता देवत्वमीप्सितम्
तेषु त्वष्टा महाज्ञानी चकार परमं तपः
सिषेवे ब्राह्मणार्थं च देवदेवं हरिं परम्
ततो बभूव तेजस्वी विश्वरूपस्तपोधनः
मातामहेभ्यो दैत्येभ्यो दत्तवन्तं घृताहुतिम्
विश्वरूपस्य तनयो विरूपो मत्पिता नृप
महादेवो मम गुरुर्विद्याज्ञानमनुप्रदः
तच्चिन्तयामि पादाब्जं न मे वाञ्छा ऽस्ति सम्पदि 2.53.
तेन दत्तं न गृह्णामि विना तत्सेवनं शुभम्