मिथ्यासाक्ष्यं यो ददाति कामात्क्रोधात्तथा भयात्
पुण्यमात्रं चापि राजन्यो हन्ति स कृतघ्नकः
मिथ्यासाक्ष्यं पाक्षिकं वा भारते वक्ति यो नृप
सन्ततं वेष्टितः सर्पैर्भीतो वै भक्षितस्तथा 2.52.
कृकलासो भवेत्तत्र भारते सप्तजन्मसु
ततो भवेद्वै वृक्षश्च महारण्ये तु शाल्मलिः
आस्तीक उवाच नराणां मातृगमने प्रायश्चित्तं न विद्यते
भारते च नृपश्रेष्ट यो दोषो मातृगामिनाम्
ब्राह्मण्यास्तावदेव स्याद्दोषः शूद्रेण मैथुने
सगर्भभ्रातृपत्नीना भगिनीनां तथैव च
यः करोति महापापी चैताभिः सह मैथुनम्
नाधिकारो भवेत्तस्य सूर्य्यमण्डलदर्शने
सर्वतीर्थजलं चैव विप्रपादोदकं तथा
दैवं गुरुं ब्राह्मणं च नमस्कर्तुं न चार्हति 2.52.
देवताः पितरो विप्रा नैव गृह्णन्ति भारते
सप्तरात्रं ह्युपवसेद्दैवस्पर्शात्तथा द्विजः
तत्पापात्पतितो देशः कन्याविक्रयिणो यथा
नृणां च तत्समं पापं भवत्येव न संशयः
दिवानिशं भ्रमेत्तत्र चक्रावर्त्तं निरन्तरम्
एवं नित्यं महापापी भुङ्क्ते निरययातनाम्
गते प्राकृतिके घोरे महति प्रलये तथा
षष्टिवर्षसहस्राणि विष्ठायां च कृमिर्भवेत्
सप्तजन्मसु शुद्धश्च गलत्कुष्ठी नपुंसकः
लब्ध्वैवं सप्त जन्मानि महापापी भवेच्छुचिः ।। 2.52.
मुनय ऊचुः एभिस्तुल्यो भवेद्दोषोऽप्यतिथीनां पराभवे
प्रणामं कुरु विप्रेन्द्रं गृहं प्रापय निश्चितम्
वनं गच्छ महाराज तपस्यां कुरु सत्वरम्
इत्युक्त्वा मुनयः सर्वे ययुस्तूर्णं स्वमन्दिरम्
इति श्रीब्रह्मवैवर्त्ते महापुराणे द्वितीये प्रकृतिखण्डे नारदनारायणसंवादान्तर्गतहरगौरीसंवादे राधोपाख्याने सुयज्ञोपाख्याने कर्मविपाको नाम द्विपञ्चाशत्तमोऽध्यायः
श्रीपार्वत्युवाच किं चकार नृपश्रेष्ठो ब्रह्मशापेन विह्वलः