अन्नं विष्ठा जलं मूत्रं विप्राणां वृषवाहिनाम्
लालाकुण्डे वसत्येव यावच्चन्द्रदिवाकरौ
त्रिसन्ध्यं ताडयेत्तं च शूलेन यमकिङ्करः
षष्टिवर्षसहस्राणि विष्ठायां च कृमिर्भवेत्
पञ्चजन्मसु गृध्रश्च शृगालः सप्तजन्मसु
भारद्वाज उवाच वयःप्रमाणां राजेन्द्र ब्रह्महत्यां लभेद्ध्रुवम्
तत्तुल्ययोनिभ्रमणात्तत्तुल्यनरकाच्छुचिः
तावदेव भवेद्दोषः शूद्रश्राद्धान्नभोजने
मार्कण्डेय उवाच अहं वक्ष्यामि वेदोक्तं सावधानं निशामय ।।2.51.
कृतघ्नानां प्रधानश्च यो विप्रो वृषलीपतिः
कृमिभक्ष्यो भवेद्विप्रो विह्वलो यमकिङ्करैः
ततश्च पुंश्चलीयोनौ कृमिर्भवति निश्चितम्
सुयज्ञ उवाच श्लाघ्यो मे ब्राह्मशापश्च कस्य सम्पद्विनाऽऽपदम्
धन्योऽहं कृतकृत्योऽहं सफलं जीवनं मम
श्रीपार्वत्युवाच तेषां किमूचुर्मुनयो वेदवेदाङ्गपारगाः
श्रीमहेश्वर उवाच तत्र प्रवक्तुमारेभे ऋषिर्नारायणो महान्
श्रीनारायण उवाच स कृतघ्न इति ज्ञेयः फलं च शृणु भूमिप
यावन्तो रेणवः सिक्ता विप्राणां नेत्रबिन्दुभिः
तप्ताङ्गारं च तद्भक्ष्यं पानं वै तप्तमूत्रकम्
तदन्ते च महापापी विष्ठायां जायते कृमिः
ततो भवेद्भूमिहीनः प्रजाहीनश्च मानवः
नारद उवाच स कृतघ्न इति ख्यातस्तत्फलं च निशामय
अन्धकूपे वसेत्सोऽपि यावदिन्द्राश्चतुर्दश
तप्तक्षारोदकं पापी नित्यं पिबति वै ततः 2.52.
देवल उवाच स कृतघ्न इति ज्ञेयो महापापी च भारते
अवटोदे वसेत्सोऽपि यावदिन्द्राश्चतुर्दश
जैगीषव्य उवाच वाचाऽपि ताडयेत्तांश्च स कृतघ्र इति स्मृतः
सा कृतघ्नीति विख्याता भारते पापिनी वरा
तत्र वह्नौ वसत्येव यावच्चन्द्रदिवाकरौ
वाल्मीकिरुवाच तथा कृतघ्नता राजन्सर्वपापेषु वर्त्तते