कात्यायन उवाच स कृतघ्नः कालसूत्रे वसेदेव चतुर्युगम्
सप्तजन्मसु काकश्च सप्तजन्मसु पेचकः
श्रीसनन्दन उवाच स कृतघ्नस्तप्तसूर्म्यां वसत्येव युगत्रयम्
पञ्चजन्मसु मण्डूकस्त्रिषु जन्मसु कर्कटः
सनातन उवाच अतर्पयंश्च यः स्नाति विष्णुनैवेद्यवर्जितः
विष्णुपूजाविहीनश्च विष्णुमन्त्रविहीनकः
शिवरात्रौ च यो भुङ्क्ते श्रीरामनवमीदिने
कुम्भीपाके वसत्येव यावदिन्द्राश्चतुर्दश
शतजन्मनि गृध्रश्च शतजन्मनि सूकरः
ततो भवेज्जन्म सप्त ब्राह्मणो वृषवाहकः ।। 2.51.
द्विजो भूत्वा सप्तजनौ भारते वृषलीपतिः
पुनः पुनः पापयोनिं नरकं च पुनः पुनः
पञ्चजन्मसु मण्डूको भवेच्छुद्धस्ततः क्रमात्
सुयज्ञ उवाच शूद्रान्नभोजने वाऽपि शूद्रस्त्रीगमनेऽपि च
ब्राह्मणानां च को दोषो वृषाणां वाहने तथा
पराशर उवाच असिपत्रे वसत्येव युगानामेकसप्ततिः
ततो भवेद्गर्दभश्च मूषिकः सप्तजन्मसु
जरत्कारुरुवाच स कृतघ्न इति ख्यातः प्रसिद्धो भारते नृप
ब्रह्महत्यासमं पापं तन्नित्यं वृषताडने
सूर्य्यातपे वाहयेद्यः क्षुधितं तृष्टितं वृषम् 2.51.
अन्नं विष्ठा जलं मूत्रं विप्राणां वृषवाहिनाम्
लालाकुण्डे वसत्येव यावच्चन्द्रदिवाकरौ
त्रिसन्ध्यं ताडयेत्तं च शूलेन यमकिङ्करः
षष्टिवर्षसहस्राणि विष्ठायां च कृमिर्भवेत्
पञ्चजन्मसु गृध्रश्च शृगालः सप्तजन्मसु
भारद्वाज उवाच वयःप्रमाणां राजेन्द्र ब्रह्महत्यां लभेद्ध्रुवम्
तत्तुल्ययोनिभ्रमणात्तत्तुल्यनरकाच्छुचिः
तावदेव भवेद्दोषः शूद्रश्राद्धान्नभोजने
मार्कण्डेय उवाच अहं वक्ष्यामि वेदोक्तं सावधानं निशामय ।।2.51.
कृतघ्नानां प्रधानश्च यो विप्रो वृषलीपतिः