प्राप्नोति कौञ्जरीं योनिं स मूढः सप्तजन्मसु 2.51.
दुर्वासा उवाच दृष्ट्वा शीघ्रं न प्रणमेत्स भवेत्सूकरो भुवि
मिथ्यासाक्षी च भवति तथा विश्वासघातकः
राजोवाच सर्वं कृत्वा च विस्पष्टं मां मूढं बोधयन्त्वहो
स्त्रीघ्नगोघ्नकृतघ्नानां गुरुस्त्रीगामिनां तथा
वसिष्ठ उवाच यवयावकभोजी च करेण च जलं पिबेत्
तदा धेनुशतं दिव्यं ब्राह्मणेभ्यः सदक्षिणम्
प्रायश्चित्ते तु वै चीर्णे सर्वपापान्न मुच्यते
आतिदेशिकहत्यायां तदर्धं फलमश्नुते
शुक्र उवाच षष्टिवर्षसहस्राणि कालसूत्रे वसेद्ध्रुवम्
ततो भवेन्महापापी सूकरः सप्तजन्मसु 2.51.
बृहस्पतिरुवाच लक्षवर्षं महाघोरे कुम्भीपाके वसेद्ध्रुवम्
ततो भवेन्महापापी विष्ठाकीटः शताब्दकम्
राजोवाच कृतघ्नः कतिधा प्रोक्तः केषु को दोष एव च
ऋष्यशृङ्ग उवाच सर्वः प्रत्येकदोषेण प्रत्येकं फलमश्नुते
कृते सत्ये च पुण्ये च स्वधर्मे तपसि स्थिते
गुरुकृत्ये देवकृत्ये काम्यकृत्ये द्विजार्चने
एतान्यो हन्ति पापिष्ठः स कृतघ्न इति स्मृतः
यान्यांश्च नरकांस्ते च यान्ति राजेन्द्र पापिनः
सुयज्ञ उवाच प्रत्येकं श्रोतुमिच्छामि वक्तुमर्हसि मे प्रभो 2.51.
कात्यायन उवाच स कृतघ्नः कालसूत्रे वसेदेव चतुर्युगम्
सप्तजन्मसु काकश्च सप्तजन्मसु पेचकः
श्रीसनन्दन उवाच स कृतघ्नस्तप्तसूर्म्यां वसत्येव युगत्रयम्
पञ्चजन्मसु मण्डूकस्त्रिषु जन्मसु कर्कटः
सनातन उवाच अतर्पयंश्च यः स्नाति विष्णुनैवेद्यवर्जितः
विष्णुपूजाविहीनश्च विष्णुमन्त्रविहीनकः
शिवरात्रौ च यो भुङ्क्ते श्रीरामनवमीदिने
कुम्भीपाके वसत्येव यावदिन्द्राश्चतुर्दश
शतजन्मनि गृध्रश्च शतजन्मनि सूकरः
ततो भवेज्जन्म सप्त ब्राह्मणो वृषवाहकः ।। 2.51.