मरीचिः कश्यपश्चैव वसिष्ठः क्रतुरेव च
गौतमश्च कणादश्च कण्वः कात्यायनः कठः
तैत्तिरिश्चाप्यापिशलिर्मार्कण्डेयो महातपाः
सनत्कुमारो भगवान्नरनारायणावृषी
भरद्वाजश्च वाल्मीकिरौर्वश्च च्यवनस्तथा
शिलालिर्लाङ्गलिश्चैव शाकल्यः शाकटायनः
जैगीषव्यो वामदेवो वालखिल्यादयस्तथा 2.50.
विश्वामित्रश्च कौत्सश्चाप्यृचीकोऽप्यघमर्षणः
दिक्पाला देवताः सर्वा विप्रं पश्चात्समाययुः
समूचुस्तं क्रमेणैव नीतिं नीतिविशारदाः
इति श्रीब्रह्मवैवर्त्ते महापुराणे द्वितीये प्रकृतिखण्डे नारदनारायणसंवादान्तर्गतहरगौरीसंवादे राधोपाख्याने सुयज्ञोपाख्यानं नाम पञ्चाशत्तमोऽध्यायः
श्रीपार्वत्युवाच नीतिज्ञा नीतिवचनं तन्मां व्याख्यातुमर्हसि
श्रीमहादेव उवाच क्रमेण वक्तुमारेभे मुनिसंघो वरानने
सनत्कुमार उवाच सुशीलं च महैश्वर्यं पितरोऽग्निः सुरास्तथा
आगता नृपगेहेभ्यः कृत्वा भ्रष्टश्रियं नृपम्
ब्राह्मणानां तु हृदयं कोमलं नवनीतवत्
क्षमस्वागच्छ विप्रेन्द्र शुद्धं कुरु नृपालयम्
भृगुरुवाच पितरस्तस्य देवाश्च वह्निश्चैव तथैव च
निराशाः प्रतिगच्छन्ति चातिथेरप्रतिग्रहात्
स्त्रीघ्नैर्गोघ्नैः कृतघ्नैश्च ब्रह्मघ्नैर्गुरुतल्पगैः
पुलस्त्य उवाच दत्त्वा स्वपापं तस्मै तत्पुण्यमादाय गच्छति ।। 2.51.
क्षमस्व नृपदोषं च गच्छ वत्स यथासुखम्
पुलह उवाच विप्रस्त्रिसन्ध्याहीनो यः श्रीहीनः क्षत्रियो भवेत्
एकादशीविहीनश्च विष्णुनैवेद्यवञ्चितः
क्रतुरुवाच दीक्षाहीनो भवेत्सोऽपि ब्राह्मणं योऽवमन्यते
धनहीनः पुत्रहीनो भार्य्याहीनो भवेद्ध्रुवम्
अङ्गिरा उवाच वृषवाहो भवेत्सोऽपि भारते सप्तजन्मसु
मरीचिरुवाच विष्णुभक्तिविहीनश्च स भवेद्योऽवमन्यते
कश्यप उवाच विष्णुमन्त्रविहीनश्च तत्पूजाविरतो भवेत्
प्रचेता उवाच पितृभक्तिविहीनस्स्यात्स भवेद्भारते भुवि