सुपक्वानि च मांसानि ब्राह्मणेभ्यश्च पार्वति
चोष्यैश्चर्व्यैर्लेह्यपेयैरतितृप्तं दिने दिने
पूर्णमन्नं च सूपाक्तं सगव्यं मांसवर्जितम्
न तुष्टुवुः सुयज्ञं च तुष्टुवुस्तत्पितॄंश्च ते
चक्रुः सुभोजनं विप्राश्चातितृप्ताश्च सुन्दरि
वृषलेभ्यो ददुः किञ्चित्किञ्चित्पथि च तत्यजुः
तथाप्युर्वरितं तत्र चान्नराशिसहस्रकम् ।। 2.50.
रत्नेन्द्रसारसंक्लृप्तच्छत्रकोटिसमन्विते
चन्दनादिसुसंसृष्टे रम्ये चन्दनपल्लवैः
चन्दनागुरुकस्तूरीवनसिन्दूरसंस्कृते
मुनिनारदमन्वादिब्रह्मविष्णुशिवान्विते
रूक्षो मलिनवासाश्च शुष्ककण्ठौष्ठतालुकः
राजानमाशिषं चक्रे सस्मितः सम्पुटाञ्जलिः
सभासदश्च नोत्तस्थुर्जहसुः स्वल्पमेव च
शशाप नृपतिं क्रोधात्तत्रातिष्ठन्निरंकुशः
भवाचिरं गलत्कुष्ठी बुद्धिहीनोऽप्युपद्रुतः
ये यत्र जहसुः सर्वे समुत्तस्थुः सभासदः 2.50.
प्रणम्यागत्य राजा तं रुरोद भयकातरः
ब्राह्मणो गूढरूपी च प्रज्वलन्ब्रह्मतेजसा
हे विप्र तिष्ठ तिष्ठेति समुच्चार्य्य पुनः पुनः
मरीचिः कश्यपश्चैव वसिष्ठः क्रतुरेव च
गौतमश्च कणादश्च कण्वः कात्यायनः कठः
तैत्तिरिश्चाप्यापिशलिर्मार्कण्डेयो महातपाः
सनत्कुमारो भगवान्नरनारायणावृषी
भरद्वाजश्च वाल्मीकिरौर्वश्च च्यवनस्तथा
शिलालिर्लाङ्गलिश्चैव शाकल्यः शाकटायनः
जैगीषव्यो वामदेवो वालखिल्यादयस्तथा 2.50.
विश्वामित्रश्च कौत्सश्चाप्यृचीकोऽप्यघमर्षणः
दिक्पाला देवताः सर्वा विप्रं पश्चात्समाययुः
समूचुस्तं क्रमेणैव नीतिं नीतिविशारदाः