द्वितीये पूजिता सा च धर्मेण ब्रह्मणा मया
महेन्द्रेण च रुद्रैश्च मनुना मानवेन च
तृतीये पूजिता सा च सप्तद्वीपेश्वरेण च
ब्राह्मणेनाभिशप्तेन देवदोषेण भूभृता
संप्राप राज्यं भ्रष्टश्रीः स च राधावरेण च
अभेद्यं कवचं तस्याः कण्ठे बाहौ दधार सः 2.49.
अन्ते जगाम गोलोकं रत्नयानेन भूमिपः
पार्वत्युवाच कथं विप्राभिशप्तश्च कथं संप्राप राधिकाम्
सर्वात्मनश्च कृष्णस्य पत्नीं श्रीकृष्णपूजिताम्
षष्टिवर्षसहस्राणि तपस्तेपे पुरा विधिः
कथं ददर्श तां देवो महालक्ष्मीं पुरा सतीम्
कथं त्रिजगतां धाता तस्मै तत्कवचं ददौ
श्रीमहादेव उवाच ब्रह्मात्मजस्तपस्वी च शतरूपापतिः प्रभुः
उत्तानपादस्तत्पुत्रस्तत्पुत्रो ध्रुव एव च
उत्कलस्तस्य पुत्रश्च नारायणपरायणः
सर्वाणि रत्नपात्राणि ब्राह्मणेभ्यो ददौ मुदा
ब्राह्मणेभ्यो ददौ राजा यज्ञान्ते स महोत्सवे 2.50.
सुयज्ञं नाम नृपतिं चकार सुरसंसदि
अन्नदाता रत्नदाता दाता वै सर्वसम्पदाम्
नित्यं ददौ स विप्रेभ्यो मुदायुक्तः सदक्षिणम्
सुपक्वानि च मांसानि ब्राह्मणेभ्यश्च पार्वति
चोष्यैश्चर्व्यैर्लेह्यपेयैरतितृप्तं दिने दिने
पूर्णमन्नं च सूपाक्तं सगव्यं मांसवर्जितम्
न तुष्टुवुः सुयज्ञं च तुष्टुवुस्तत्पितॄंश्च ते
चक्रुः सुभोजनं विप्राश्चातितृप्ताश्च सुन्दरि
वृषलेभ्यो ददुः किञ्चित्किञ्चित्पथि च तत्यजुः
तथाप्युर्वरितं तत्र चान्नराशिसहस्रकम् ।। 2.50.
रत्नेन्द्रसारसंक्लृप्तच्छत्रकोटिसमन्विते
चन्दनादिसुसंसृष्टे रम्ये चन्दनपल्लवैः
चन्दनागुरुकस्तूरीवनसिन्दूरसंस्कृते