सिन्दूरबिन्दुसंयुक्तं कस्तूरीबिन्दुसंयुतम् 1.10.
तामुवाच प्रियां शान्तां कामशास्त्रविशारदः
विश्वकर्मोवाच मम प्राणांश्चापहत्य तिष्ठ कान्ते क्षणं शुभे
तवैवान्वेषणं कृत्वा भ्रमामि जगतीतलम्
त्वं कामलोकं यासीति श्रुत्वा रम्भामुखोदितम्
अहो सरस्वतीतीरे पुष्पोद्याने मनोहरे
यभ कान्ते मया सार्द्धं यूना कान्तेन शोभने
स्थिरयौवनसंयुक्ता त्वमेव चिरजीविनी
मृत्युंजयवरेणैव मृत्युकन्या जिता मया
रत्नमाला च वरुणाद्वायोः स्त्रीरत्नभूषणम्
कामशास्त्रं कामदेवाद्योषिद्रञ्जनकारम् 1.10.
रत्नमालां वस्त्रयुग्मं सर्वाण्याभरणानि च
गृहे तानि च संस्थाप्य चागतोऽन्वेषणे भवे
कामुकस्य वचः श्रुत्वा घृताची सस्मिता मुने
घृताच्युवाच । किन्तु सामयिकं वाक्यं ब्रवीष्यामि स्मरातुर
कामदेवालयं यामि कृतवेषा च तत्कृते
अद्याहं कामपत्नी च गुरुपत्नी तवाधुना
विद्यादाता मन्त्रदाता गुरुर्लक्षगुणैः पितुः
गुरोः शतगुणैः पूज्या गुरुपत्नी श्रुतौ श्रुता
मात्रा समागमे सूनोर्यावान्दोषः श्रुतौ श्रुतः
मातरित्येव शब्देन यां च सम्भाषते नरः 1.10.
तया हि संगतो यस्स्यात्कालसूत्रं प्रयाति सः
मात्रा सह समायोगे ततो दोषश्चतुर्गुणः
कुम्भीपाके पतत्येव यावद्वै ब्रह्मणो वयः
चक्राकारं कुलालस्य तीक्ष्णधारं च खङ्गवत्
शूलवत्कृमिसंयुक्तं तप्तमग्निसमं द्रवत्
यावान्दोषो हि पुंसां च गुरुपत्नीसमागमे
अद्य यास्यामि कामस्य मन्दिरं तस्य कामिनी
घृताचीवचनं श्रुत्वा विश्वकर्मा रुरोष ताम्
घृताची तद्वचः श्रुत्वा तं शशाप सुदारुणम्