भारावतरणे भूमेर्भारते नन्दगोकुले ।। ददर्श तत्पदाम्भोजं तपसस्तत्फलेन च
किञ्चित्कालं स वै कृष्णः पुण्ये वृन्दावने वने
ततः सुदामशापेन विच्छेदश्च बभूव ह
शताब्दे समतीते तु तीर्थयात्राप्रसंगतः
ततो जगाम गोलोकं राधया सह तत्त्ववित्
वृषभानुश्च नन्दश्च ययौ गोलोकमुत्तमम् 2.49.
छाया गोपाश्च गोप्यश्च प्रापुर्मुक्तिं च सन्निधौ
षट्त्रिंशल्लक्षकोट्यश्च गोप्यो गोपाश्च तत्समाः
द्रोणः प्रजापतिर्नन्दो यशोदा तत्प्रिया धरा
वसुदेवः कश्यपश्च देवकी चादितिः सती
पितॄणां मानसी कन्या राधामाता कलावती
इत्येवं कथितं दुर्गे राधिकाख्यानमुत्तमम्
श्रीकृष्णश्च द्विधारूपो द्विभुजश्च चतुर्भुजः
चतुर्भुजस्य पत्नी च महालक्ष्मीः सरस्वती
श्रीकृष्णपत्नी सा राधा तदर्द्धाङ्गसमुद्भवा
आदौ राधां समुच्चार्य पश्चात्कृष्णं वदेद्बुधः 2.49.
कार्त्तिकीपूर्णिमायां च गोलोके रासमण्डले
सद्रत्नघुटिकायाश्च कृत्वा तत्कवचं हरिः
कृत्वा ध्यानं च भक्त्या च स्तोत्रमेतच्चकार सः
राधा पूज्या च कृष्णस्य तत्पूज्यो भगवान्प्रभुः
द्वितीये पूजिता सा च धर्मेण ब्रह्मणा मया
महेन्द्रेण च रुद्रैश्च मनुना मानवेन च
तृतीये पूजिता सा च सप्तद्वीपेश्वरेण च
ब्राह्मणेनाभिशप्तेन देवदोषेण भूभृता
संप्राप राज्यं भ्रष्टश्रीः स च राधावरेण च
अभेद्यं कवचं तस्याः कण्ठे बाहौ दधार सः 2.49.
अन्ते जगाम गोलोकं रत्नयानेन भूमिपः
पार्वत्युवाच कथं विप्राभिशप्तश्च कथं संप्राप राधिकाम्
सर्वात्मनश्च कृष्णस्य पत्नीं श्रीकृष्णपूजिताम्
षष्टिवर्षसहस्राणि तपस्तेपे पुरा विधिः