बभूवुः क्षुद्रनद्यश्च तदाऽन्या गोप्य एव च
इमे सप्त समुद्राश्च विरजानन्दना भुवि
न दृष्ट्वा विरजां कृष्णं स्वगृहं च पुनर्ययौ
गोपीभिर्द्वारि युक्ताभिर्वारितोऽपि पुनः पुनः
सुदामा भर्त्सयामास तां तथा कृष्णसन्निधौ
गच्छ त्वमासुरीं योनिं गच्छ दूरमतो द्रुतम् 2.49.
भव गोपी गोपकन्यामुख्याभिः स्वाभिरेव च
तत्र भारावतरणं भगवांश्च करिष्यति साश्रुनेत्रो मोहयुक्तस्ततो गन्तुं समुद्यतः
राधा जगाम तत्पश्चात्साश्रुनेत्राऽतिविह्वला
कृष्णस्तां बोधयामास विद्यया च कृपानिधिः
स चासुरः शङ्खचूडो बभूव तुलसीपतिः
राधा जगाम वाराहे गोकुलं भारतं सती
अयोनिसम्भवा देवी वायुगर्भा कलावती
अतीते द्वादशाब्दे तु दृष्ट्वा तां नवयौवनाम्
छायां संस्थाप्य तद्गेहे साऽन्तर्द्धानमवाप ह
गते चतुर्दशाब्दे तु कंसभीतेश्छलेन च 2.49.
कृष्णमाता यशोदा या रायाणस्तत्सहोदरः
कृष्णेन सह राधायाः पुण्ये वृन्दावने वने
स्वप्ने राधापदाम्भोजं नहि पश्यन्ति बल्लवाः
षष्टिवर्षसहस्राणि तपस्तेपे पुरा विधिः
भारावतरणे भूमेर्भारते नन्दगोकुले ।। ददर्श तत्पदाम्भोजं तपसस्तत्फलेन च
किञ्चित्कालं स वै कृष्णः पुण्ये वृन्दावने वने
ततः सुदामशापेन विच्छेदश्च बभूव ह
शताब्दे समतीते तु तीर्थयात्राप्रसंगतः
ततो जगाम गोलोकं राधया सह तत्त्ववित्
वृषभानुश्च नन्दश्च ययौ गोलोकमुत्तमम् 2.49.
छाया गोपाश्च गोप्यश्च प्रापुर्मुक्तिं च सन्निधौ
षट्त्रिंशल्लक्षकोट्यश्च गोप्यो गोपाश्च तत्समाः
द्रोणः प्रजापतिर्नन्दो यशोदा तत्प्रिया धरा
वसुदेवः कश्यपश्च देवकी चादितिः सती