ताभिर्भक्त्या युताभिश्च कातराभिश्च संस्तुता दशयोजनविस्तीर्णं दैर्घ्ये तच्छतयोजनम्
सहस्रचक्रयुक्तं च नानाचित्रसमन्वितम्
अमूल्यरत्ननिर्माणदर्पणैः परिशोभितम्
सद्रत्न कलशैर्युक्तं रम्यैर्मन्दिरकोटिभिः
ययौ रथेन तेनैव सुमनोमालिना प्रिये
कृष्णं कृत्वा सावधानं गोपैः सार्द्धं पलायितः 2.49.
स्वप्रेममग्नः कृष्णोऽपि तिरोधानं चकार सः
राधाप्रकोपभीता च प्राणांस्तत्याज तत्क्षणम्
प्रययुः शरणं साध्वीं विरजां तत्क्षणं भिया
कोटियोजनविस्तीर्णा दीर्घे शतगुणा तथा
बभूवुः क्षुद्रनद्यश्च तदाऽन्या गोप्य एव च
इमे सप्त समुद्राश्च विरजानन्दना भुवि
न दृष्ट्वा विरजां कृष्णं स्वगृहं च पुनर्ययौ
गोपीभिर्द्वारि युक्ताभिर्वारितोऽपि पुनः पुनः
सुदामा भर्त्सयामास तां तथा कृष्णसन्निधौ
गच्छ त्वमासुरीं योनिं गच्छ दूरमतो द्रुतम् 2.49.
भव गोपी गोपकन्यामुख्याभिः स्वाभिरेव च
तत्र भारावतरणं भगवांश्च करिष्यति साश्रुनेत्रो मोहयुक्तस्ततो गन्तुं समुद्यतः
राधा जगाम तत्पश्चात्साश्रुनेत्राऽतिविह्वला
कृष्णस्तां बोधयामास विद्यया च कृपानिधिः
स चासुरः शङ्खचूडो बभूव तुलसीपतिः
राधा जगाम वाराहे गोकुलं भारतं सती
अयोनिसम्भवा देवी वायुगर्भा कलावती
अतीते द्वादशाब्दे तु दृष्ट्वा तां नवयौवनाम्
छायां संस्थाप्य तद्गेहे साऽन्तर्द्धानमवाप ह
गते चतुर्दशाब्दे तु कंसभीतेश्छलेन च 2.49.
कृष्णमाता यशोदा या रायाणस्तत्सहोदरः
कृष्णेन सह राधायाः पुण्ये वृन्दावने वने
स्वप्ने राधापदाम्भोजं नहि पश्यन्ति बल्लवाः
षष्टिवर्षसहस्राणि तपस्तेपे पुरा विधिः