राशब्दोच्चारणाद्भक्तो राति मुक्तिं सुदुर्लभाम् ।। 2.48.
कृष्णवामांशसम्भूता राधा रासेश्वरी पुरा
रा इत्यादानवचनो धा च निर्वाणवाचकः
बभूव गोपीसंघश्च राधाया लोमकूपतः
राधावामांशभागेन महालक्ष्मीर्बभूव सा
चतुर्भुजस्य सा पत्नी देवी वैकुण्ठवासिनी
तदंशा मर्त्यलक्ष्मीश्च गृहिणां च गृहे गृहे
स्वयं राधा कृष्णपत्नी कृष्णवक्षःस्थलस्थिता
आब्रह्मस्तम्बपर्यन्तं सर्वं मिथ्यैव पार्वति
परं प्रधानं परमं परमात्मानमीश्वरम्
स्वेच्छामयं नित्यरूपं भक्तानुग्रहविग्रहम् 2.48.
तस्य प्राणाधिका राधा बहुसौभाग्यसंयुता
मानिनीं राधिकां सन्तः सेवन्ते नित्यशस्सदा
स्वप्ने राधापदाम्भोजं नहि पश्यन्ति बल्लवाः
स च द्वादशगोपानां रायाणप्रवरः प्रिये
सुदामशापात्सा देवी गोलोकादागता महीम्
पार्वत्युवाच कथं शशाप भृत्यो हि स्वाभीष्टां देवकामिनीम्
श्रीभगवानुवाच गोप्यं सर्वपुराणेषु शुभदं भक्तिमुक्तिदम्
एकदा राधिकेशश्च गोलोके रासमण्डले
गृहीत्वा विरजां गोपीं सुभाग्यां राधिकासमाम्
रत्नप्रदीपसंयुक्ते रत्ननिर्माणमण्डले
कस्तूरीकुंकुमारक्ते सुचन्दनसुधूपिते
सुरताद्विरतिर्नास्ति दम्पती रतिपण्डितौ
मन्वन्तराणां लक्षश्च कालः परिमितो गतः
दूत्यश्चतस्रो ज्ञात्वाऽथ जगदुस्तां तु राधिकम्
प्रबोधिता च सखिभिः कोपरक्तास्यलोचना 2.49.
क्रीडापद्मं च सद्रत्नामूल्यदर्पणमुज्ज्वलम्
प्रक्षाल्य तोयाञ्जलिभिर्मुखरागमलक्तकम्
शुक्लवस्त्रपरीधाना रूक्षा वेषादिवर्जिता
आजुहाव सखीसंघं रोषविस्फुरिताधरा