मदर्द्धांगस्वरूपा त्वं न मद्भिन्ना स्वरूपतः 2.48.
मदिष्टदेवकान्ताया राधायाश्चरितं सति
जानामि तदहं दुर्गे सर्वं पूर्वापरं वरम्
न तत्सनत्कुमारश्च न च धर्मः सनातनः
मत्तो बलवती त्वं च प्राणांस्त्यक्तुं समुद्यता
शृणु दुर्गे प्रवक्ष्यामि रहस्यं परमाद्भुतम्
पुरा वृन्दावने रम्ये गोलोके रासमण्डले
रत्नसिंहासने रम्ये तस्थौ तत्र जगत्पतिः
रिरंसोस्तस्य जगतां पत्युस्तन्मल्लिकावने
एतस्मिन्नन्तरे दुर्गे द्विधारूपो बभूव सः
बभूव रमणी रम्या रासेशा रमणोत्सुका 2.48.
वह्निशुद्धांशुकाधाना कोटिपूर्णशशिप्रभा
सस्मिता सुदती शुद्धा शरत्पद्मनिभानना
रत्नमालां च दधती ग्रीष्मसूर्य्यसमप्रभाम्
संयुक्तं वर्तुलोत्तुंगं सुमेरु गिरिसन्निभम्
मांगल्यं मंगलार्हं च स्तनयुग्मं च बिभ्रती
कामातुरः सस्मितां तां ददर्श रसिकेश्वरः
दृष्ट्वा चैनं सुकान्तं च सा दधार हरेः पुरः
राधा भजति तं कृष्णं स च तां च परस्परम्
भवनं धावनं रासे स्मरत्यालिंगनं जपन्
राशब्दोच्चारणाद्भक्तो राति मुक्तिं सुदुर्लभाम् ।। 2.48.
कृष्णवामांशसम्भूता राधा रासेश्वरी पुरा
रा इत्यादानवचनो धा च निर्वाणवाचकः
बभूव गोपीसंघश्च राधाया लोमकूपतः
राधावामांशभागेन महालक्ष्मीर्बभूव सा
चतुर्भुजस्य सा पत्नी देवी वैकुण्ठवासिनी
तदंशा मर्त्यलक्ष्मीश्च गृहिणां च गृहे गृहे
स्वयं राधा कृष्णपत्नी कृष्णवक्षःस्थलस्थिता
आब्रह्मस्तम्बपर्यन्तं सर्वं मिथ्यैव पार्वति
परं प्रधानं परमं परमात्मानमीश्वरम्