मालाकारः शङ्खकारः कर्मकारः कुविन्दकः 1.10.
सूत्रकारश्चित्रकारः स्वर्णकारस्तथैव च
शौनक उवाच शूद्रायामधमायां च कथं ते पतितास्त्रयः
कथं तेषु ब्रह्मशापो ह्यभवत्केन हेतुना
सौतिरुवाच तामपश्यद्विश्वकर्मा गच्छन्तीं पुष्करे पथि
आगच्छत्तद्विलोकाच्च प्रसादोत्फुल्लमानमः
रत्नालङ्कारभूषाढ्यां सर्वावयवकोमलाम्
बृहन्नितम्ब भारार्तां मुनिमानसमोहिनीम्
तच्छ्रोणीं कठिनां दृष्ट्वा वायुनाऽपहृतांशुकाम्
सुस्मितं चारु वक्त्रं च शरच्चन्द्रविनिन्दकम्
सिन्दूरबिन्दुसंयुक्तं कस्तूरीबिन्दुसंयुतम् 1.10.
तामुवाच प्रियां शान्तां कामशास्त्रविशारदः
विश्वकर्मोवाच मम प्राणांश्चापहत्य तिष्ठ कान्ते क्षणं शुभे
तवैवान्वेषणं कृत्वा भ्रमामि जगतीतलम्
त्वं कामलोकं यासीति श्रुत्वा रम्भामुखोदितम्
अहो सरस्वतीतीरे पुष्पोद्याने मनोहरे
यभ कान्ते मया सार्द्धं यूना कान्तेन शोभने
स्थिरयौवनसंयुक्ता त्वमेव चिरजीविनी
मृत्युंजयवरेणैव मृत्युकन्या जिता मया
रत्नमाला च वरुणाद्वायोः स्त्रीरत्नभूषणम्
कामशास्त्रं कामदेवाद्योषिद्रञ्जनकारम् 1.10.
रत्नमालां वस्त्रयुग्मं सर्वाण्याभरणानि च
गृहे तानि च संस्थाप्य चागतोऽन्वेषणे भवे
कामुकस्य वचः श्रुत्वा घृताची सस्मिता मुने
घृताच्युवाच । किन्तु सामयिकं वाक्यं ब्रवीष्यामि स्मरातुर
कामदेवालयं यामि कृतवेषा च तत्कृते
अद्याहं कामपत्नी च गुरुपत्नी तवाधुना
विद्यादाता मन्त्रदाता गुरुर्लक्षगुणैः पितुः
गुरोः शतगुणैः पूज्या गुरुपत्नी श्रुतौ श्रुता
मात्रा समागमे सूनोर्यावान्दोषः श्रुतौ श्रुतः