ते गत्वा ब्रह्मणो लोकं ब्रह्माणं तुष्टुवुस्तदा
महेन्द्र उवाच गवां बीजस्वरूपायै नमस्ते जगदम्बिके
नमो राधाप्रियायै च पद्मांशायै नमो नमः कल्पवृक्षस्वरूपायै प्रदात्र्यै सर्वसंपदाम्
श्रीदायै धनदायै च बुद्धिदायै नमो नमः
यशोदायै सौख्यदायै धर्मज्ञायै नमो नमः
आविर्बभूव तत्रैव ब्रह्मलोके सनातनी
जगाम सा च गोलोकं ययुर्देवादयो गृहम्
दुग्धाद् घृतं ततो यज्ञस्ततः प्रीतिः सुरस्य च 2.47.
स गोमान्धनवांश्चैव कीर्त्तिमान्पुण्यवान्भवेत्
इह लोके सुखं भुक्त्वा यात्यन्ते कृष्णमन्दिरम्
न पुनर्भवनं तस्य ब्रह्मपुत्र भवे भवेत्
इति श्रीब्रह्मवैवर्त्ते महापुराणे द्वितीये प्रकृतिखण्डे नारदनारायणसंवादे सुरभ्युपाख्याने तदुत्पत्ति तत्पूजादिकथनं नाम सप्तचत्वारिंशत्तमोऽध्यायः
नारद उवाच नारायणांश भगवन्ब्रूहि नारायणीं कथाम्
श्रुतं सुरभ्युपाख्यानमतीव सुमनोहरम्
अधुना श्रोतुमिच्छामि राधिकाख्यानमुत्तमम्
श्रीनारायण उवाच सिद्धेशं सिद्धिदं सर्वस्वरूपं शंकरं परम्
प्रफुल्लवदनं प्रीतं सस्मितं मुनिभिः स्तुतम्
रासोत्सवरसाख्यानं रासमण्डलवर्णनम्
पप्रच्छ पार्वती स्फीता सस्मिता प्राणवल्लभम् ।। स्तवनं कुर्वती भीता प्राणेशेन प्रसादिता
प्रोवाच तं महादेवं महादेवी सुरेश्वरी
श्रीपार्वत्युवाच पाञ्चरात्रादिकं नीतिशास्त्रयोगं च योगिनाम्
सिद्धानां सिद्धिशास्त्रं च नानातन्त्रं मनोहरम् 2.48.
श्रुतौ श्रुतं प्रशस्तं च राधायाश्च समासतः
आगमाख्यानकाले च भवता स्वीकृतं पुरा
तदुत्पतिं च तद्ध्यानं नाम्नो माहात्म्यमुत्तमम्
आराधनविधानं च पूजापद्धतिमीप्सिताम्
कथं न कथितं पूर्वमागमाख्यानकालतः
पञ्चवक्त्रश्च भगवाञ्छुष्ककण्ठोष्ठतालुकः
सस्मार कृष्णं ध्यानेनाभीष्टदेवं कृपानिधिम्
निषिद्धोऽहं भगवता कृष्णेन परमात्मना