सर्वादिसृष्टेः कथनं कथयामि निशामय
एकदा राधिकानाथो राधया सह कौतुकात्
सहसा तत्र रहसि विजहार च कौतुकात्
ससृजे सुरभीं देवीं लीलया वामपार्श्वतः
दृष्ट्वा सवत्सां सुरभीं रत्नभाण्डे दुदोह सः
तदुष्णं च पयः स्वादु पपौ गोपीपतिः स्वयम्
दीर्घे च विस्तृते चैव परितः शतयोजनम्
गोपिकानां च राधायाः क्रीडावापी बभूव सा 2.47.
बभूव कामधेनूनां सहसा लक्षकोटयः
तासां पुत्राश्च पौत्राश्च संबभूवुरसंख्यकाः
पूजां चकार भगवान्सुरभ्याश्च पुरा मुने
दीपान्विता परदिने श्रीकृष्णस्याज्ञया भवे
ध्यानं स्तोत्रं मूलमन्त्रं यद्यत्पूजाविधिक्रमम्
ॐ सुरभ्यै नम इति मन्त्रोऽयं तु षडक्षरः
स्थितं ध्यानं यजुर्वेदे पूजनं सर्वसम्मतम्
लक्ष्मीस्वरूपां परमां राधासहचरीं पराम्
पवित्ररूपां पूज्यां च भक्तानां सर्वकामदाम्
घटे वा धेनुशिरसि बद्धस्तंभे गवां च वा 2.47.
दीपान्विता परदिने पूर्वाह्णे भक्तिसंयुतः
एकदा त्रिषु लोकेषु वाराहे विष्णुमायया
ते गत्वा ब्रह्मणो लोकं ब्रह्माणं तुष्टुवुस्तदा
महेन्द्र उवाच गवां बीजस्वरूपायै नमस्ते जगदम्बिके
नमो राधाप्रियायै च पद्मांशायै नमो नमः कल्पवृक्षस्वरूपायै प्रदात्र्यै सर्वसंपदाम्
श्रीदायै धनदायै च बुद्धिदायै नमो नमः
यशोदायै सौख्यदायै धर्मज्ञायै नमो नमः
आविर्बभूव तत्रैव ब्रह्मलोके सनातनी
जगाम सा च गोलोकं ययुर्देवादयो गृहम्
दुग्धाद् घृतं ततो यज्ञस्ततः प्रीतिः सुरस्य च 2.47.
स गोमान्धनवांश्चैव कीर्त्तिमान्पुण्यवान्भवेत्
इह लोके सुखं भुक्त्वा यात्यन्ते कृष्णमन्दिरम्