शुद्धसत्त्वस्वरूपा त्वं कोपहिंसाविवर्जिता त्वं मया पूजिता साध्वि जननी च यथाऽदितिः 2.46.
दयारूपा च भगिनी क्षमारूपा यथा प्रसूः
अहं करोमि त्वां पूज्यां मम प्रीतिश्च वर्द्धते
तथाऽपि तव पूजां वै वर्द्धयामि पुनः पुनः
पञ्चम्यां मनसाख्यायां मासान्ते वा दिने दिने
यशस्विनः कीर्त्तिमन्तो विद्यावन्तो गुणान्विताः
लक्ष्मीहीना भविष्यन्ति तेषां नागभयं सदा
नारायणांशो भगवाञ्जरत्कारुर्मुनीश्वरः
अस्माकं रक्षणायैव तेन त्वं मनसाभिधा
तेन त्वं मनसादेवी पूजिता वन्दिता भवे
तेन त्वां मनसादेवीं प्रवदन्ति पुराविदः 2.46.
यो हि यद्भावयेन्नित्यं शतं प्राप्नोति तत्समम्
निर्जगाम स्वभवनं भूषावासपरिच्छदाम्
भ्रातृभिः पूजिता शश्वन्मान्या वन्द्या च सर्वतः
तां स्नापयित्वा क्षीरेण पूजयामास सादरम् तदा देवैः पूजिता सा स्वर्गलोकं पुनर्ययौ
इदं स्तोत्रं पुण्यबीजं तां संपूज्य च यः पठेत्
विषं भवेत्सुधातुल्यं सिद्धस्तोत्रं यदा पठेत्
सर्पशायी भवेत्सोऽपि निश्चितं सर्पवाहनः
नारद उवाच तज्जन्मचरितं ब्रह्मञ्छ्रोतुमिच्छामि तत्त्वतः
नारायण उवाच गवां प्रधाना सुरभी गोलोके च समुद्भवा
सर्वादिसृष्टेः कथनं कथयामि निशामय
एकदा राधिकानाथो राधया सह कौतुकात्
सहसा तत्र रहसि विजहार च कौतुकात्
ससृजे सुरभीं देवीं लीलया वामपार्श्वतः
दृष्ट्वा सवत्सां सुरभीं रत्नभाण्डे दुदोह सः
तदुष्णं च पयः स्वादु पपौ गोपीपतिः स्वयम्
दीर्घे च विस्तृते चैव परितः शतयोजनम्
गोपिकानां च राधायाः क्रीडावापी बभूव सा 2.47.
बभूव कामधेनूनां सहसा लक्षकोटयः
तासां पुत्राश्च पौत्राश्च संबभूवुरसंख्यकाः