शम्भुश्च चतुरो वेदान्वेदांगानितरांस्तथा
भक्तिरस्ति स्वकान्ते चाभीष्टे देवे हरौ गुरौ
जगाम तपसे विष्णोः पुष्करं शङ्कराज्ञया
दिव्यं वर्षत्रिलक्षं च तपस्तप्त्वा तपोधनः
शंकरं च नमस्कृत्य पुरः कृत्वा च बालकम्
तां सपुत्रां सुतां दृष्ट्वा मुदं प्राप प्रजापतिः 2.46.
ब्राह्मणान्भोजयामास त्वसंख्याञ्छ्रेयसे शिशोः
सा सपुत्रा च सुचिरं तस्थौ तातालये तदा
अथाभिमन्युतनये ब्रह्मशापः परीक्षिते
सप्ताहे समतीते तु तक्षकस्त्वां च दंक्ष्यति
राजा श्रुत्वा तत्प्रवृत्तिं गंगाद्वारं जगाम सः
सप्ताहे समतीते तु गच्छन्तं तक्षकं पथि
तयोर्बभूव संवादः सुप्रीतिश्च परस्परम्
राजा चकार यज्ञं च सर्पसत्राभिधं मुने 2.46.
स तक्षकश्च भीतश्च महेन्द्रं शरणं ययौ
अथ देवाश्च मुनयश्चाययुर्मनसान्तिकम् १
तत्र आस्तीक आगत्य मातुर्यज्ञमथाज्ञया
ददौ वरं नृपश्रेष्ठः कृपया ब्राह्मणाज्ञया
संपूज्य मनसादेवीं प्रययुः स्वालयं च ते
नारद उवाच पूजाविधिक्रमं तस्याः श्रोतुमिच्छामि तत्त्वतः
नारायण उवाच रत्नसिंहासने देवीं वासयामास भक्तितः ।। 2.46.
स्वर्गगङ्गाजलेनैव रत्नकुम्भ स्थितेन च
वाससी वासयामास वह्निशुद्धे मनोरमे
गणेशं च दिनेशं च वह्निं विष्णुं शिवं शिवाम्
ॐ ह्रीं श्रीं मनसादेव्यै स्वाहेत्येवं च मन्त्रतः
उपचारान्षोडशकान्भक्तितो दुर्लभान्हरिः
वाद्यं नानाप्रकारं च वादयामास तत्र वै
देवो विप्राज्ञया तत्र ब्रह्मविष्णुशिवाज्ञया
महेन्द्र उवाच परात्परां च परमां नहि स्तोतुं क्षमो ऽधुना
स्तोत्राणां लक्षणं वेदे स्वभावाख्यानतः परम्