तेन विश्रवसः पुत्रः कुबेरश्च धनाधिपः 1.10.
पुलहस्य सुतो वात्स्यः शाण्डिल्यश्च रुचेः सुतः
काश्यपः कश्यपाज्जातो भरद्वाजो बृहस्पतेः
शाण्डिल्यश्च रुचेः पुत्रो मुनिस्तेजस्विनां वरः
बभूवुर्ब्रह्मणो वक्त्रादन्या ब्राह्मणजातयः
चन्द्रादित्यमनूनां च प्रवराः क्षत्रियाः स्मृताः
ऊरुदेशाच्च वैश्याश्च पादतः शूद्रजातयः
गोपनापितभिल्लाश्च तथा मोदककूबरौ
इत्येवमाद्या विप्रेन्द्र सच्छूद्राः परिकीर्त्तिताः
विश्वकर्मा च शूद्रायां वीर्य्याधानं चकार सः
मालाकारः शङ्खकारः कर्मकारः कुविन्दकः 1.10.
सूत्रकारश्चित्रकारः स्वर्णकारस्तथैव च
शौनक उवाच शूद्रायामधमायां च कथं ते पतितास्त्रयः
कथं तेषु ब्रह्मशापो ह्यभवत्केन हेतुना
सौतिरुवाच तामपश्यद्विश्वकर्मा गच्छन्तीं पुष्करे पथि
आगच्छत्तद्विलोकाच्च प्रसादोत्फुल्लमानमः
रत्नालङ्कारभूषाढ्यां सर्वावयवकोमलाम्
बृहन्नितम्ब भारार्तां मुनिमानसमोहिनीम्
तच्छ्रोणीं कठिनां दृष्ट्वा वायुनाऽपहृतांशुकाम्
सुस्मितं चारु वक्त्रं च शरच्चन्द्रविनिन्दकम्
सिन्दूरबिन्दुसंयुक्तं कस्तूरीबिन्दुसंयुतम् 1.10.
तामुवाच प्रियां शान्तां कामशास्त्रविशारदः
विश्वकर्मोवाच मम प्राणांश्चापहत्य तिष्ठ कान्ते क्षणं शुभे
तवैवान्वेषणं कृत्वा भ्रमामि जगतीतलम्
त्वं कामलोकं यासीति श्रुत्वा रम्भामुखोदितम्
अहो सरस्वतीतीरे पुष्पोद्याने मनोहरे
यभ कान्ते मया सार्द्धं यूना कान्तेन शोभने
स्थिरयौवनसंयुक्ता त्वमेव चिरजीविनी
मृत्युंजयवरेणैव मृत्युकन्या जिता मया
रत्नमाला च वरुणाद्वायोः स्त्रीरत्नभूषणम्