क्षुधितानां यथाऽन्ने च कामुकानां यथा स्त्रियाम्
विदुषां च यथा शास्त्रे वणिज्ये वणिजां यथा
इत्युक्त्वा मनसा देवी पपात स्वामिनः पदे
नेत्रोदकेन मनसां स्नापयामास तां मुनिः
तदा ज्ञानेन तौ द्वौ च विशोकौ च बभूवतुः
जगाम तपसे विप्रः स कान्तां सुप्रबोध्य च
पार्वती बोधयामास मनसां शोककर्शिताम् 2.46.
सुप्रशस्ते दिने साध्वी सुषुवे मङ्गले क्षणे
गर्भस्थितो महाज्ञानं श्रुत्वा शङ्करवक्त्रतः
जातकं कारयामास वाचयामास मंगलम्
शम्भुश्च चतुरो वेदान्वेदांगानितरांस्तथा
भक्तिरस्ति स्वकान्ते चाभीष्टे देवे हरौ गुरौ
जगाम तपसे विष्णोः पुष्करं शङ्कराज्ञया
दिव्यं वर्षत्रिलक्षं च तपस्तप्त्वा तपोधनः
शंकरं च नमस्कृत्य पुरः कृत्वा च बालकम्
तां सपुत्रां सुतां दृष्ट्वा मुदं प्राप प्रजापतिः 2.46.
ब्राह्मणान्भोजयामास त्वसंख्याञ्छ्रेयसे शिशोः
सा सपुत्रा च सुचिरं तस्थौ तातालये तदा
अथाभिमन्युतनये ब्रह्मशापः परीक्षिते
सप्ताहे समतीते तु तक्षकस्त्वां च दंक्ष्यति
राजा श्रुत्वा तत्प्रवृत्तिं गंगाद्वारं जगाम सः
सप्ताहे समतीते तु गच्छन्तं तक्षकं पथि
तयोर्बभूव संवादः सुप्रीतिश्च परस्परम्
राजा चकार यज्ञं च सर्पसत्राभिधं मुने 2.46.
स तक्षकश्च भीतश्च महेन्द्रं शरणं ययौ
अथ देवाश्च मुनयश्चाययुर्मनसान्तिकम् १
तत्र आस्तीक आगत्य मातुर्यज्ञमथाज्ञया
ददौ वरं नृपश्रेष्ठः कृपया ब्राह्मणाज्ञया
संपूज्य मनसादेवीं प्रययुः स्वालयं च ते
नारद उवाच पूजाविधिक्रमं तस्याः श्रोतुमिच्छामि तत्त्वतः