तेजस्वी च तपस्वी च यशस्वी च गुणान्वितः
स च पुत्रो विष्णुभक्तो धार्मिकः कुलमुद्धरेत्
पतिव्रता सुशीला या सप्रिया प्रियवादिनी
हरिभक्तिप्रदो बन्धुस्तदिष्टं यत्सुखप्रदम्
सा गर्भधारिणी या च गर्भवासविमोचिनी
गुरुश्च ज्ञानदाता च तज्ज्ञानं कृष्णभावनम्
आविर्भूतं तिरोभूतं किं वा ज्ञानं तदन्यतः 2.46.
तत्त्वानां सारभूतं च हरेरन्यद्विडम्बनम्
ज्ञानात्प्रमुच्यते बन्धात्स रिपुर्यो हि बन्धदः
स रिपुः शिष्यघाती च यतो बन्धान्न मोचयेत्
न मोचयेद्यः स कथं गुरुस्तातो हि बान्धवः
न दर्शयेद्यः स कथं कीदृशो बान्धवो नृणाम् निर्मूलं च पुराकर्म भवेद्यत्सेवया ध्रुवम्
मया छलेन त्वं त्यक्ता दोषं मे क्षम्यतां प्रिये
पुष्करे तपसे यामि गच्छ देवि यथासुखम्
धनादिषु स्त्रियां प्रीतिः प्रवृत्तिपथगामिनाम्
जरत्कारुवचः श्रुत्वा मनसा शोककातरा
मनसोवाच यत्र स्मरामि त्वां बन्धो तत्र मामागमिष्यसि।।2.46.
बन्धुभेदः क्लेशतमः पुत्रभेदस्ततः परः
पतिः पतिव्रतानां च शतपुत्राधिकः प्रियः
पुत्रे यथैकपुत्राणां वैष्णवानां यथा हरौ
क्षुधितानां यथाऽन्ने च कामुकानां यथा स्त्रियाम्
विदुषां च यथा शास्त्रे वणिज्ये वणिजां यथा
इत्युक्त्वा मनसा देवी पपात स्वामिनः पदे
नेत्रोदकेन मनसां स्नापयामास तां मुनिः
तदा ज्ञानेन तौ द्वौ च विशोकौ च बभूवतुः
जगाम तपसे विप्रः स कान्तां सुप्रबोध्य च
पार्वती बोधयामास मनसां शोककर्शिताम् 2.46.
सुप्रशस्ते दिने साध्वी सुषुवे मङ्गले क्षणे
गर्भस्थितो महाज्ञानं श्रुत्वा शङ्करवक्त्रतः
जातकं कारयामास वाचयामास मंगलम्