कुपितं च मुनिं दृष्ट्वा श्रीसूर्य्यं शप्तुमुद्यतम्
तत्रागत्य मुनिश्रेष्ठमवोचद्भास्करः स्वयम्
श्रीसूर्य्य उवाच त्वां बोधयामास विप्र नाहमस्तं गतस्तदा
क्षमस्व भगवन्ब्रह्मन्मां शप्तुं नोचितं मुने
तेषां क्षणार्द्धं क्रोधश्च ततो भस्म भवेज्जगत्
ब्रह्मणो वंशसम्भूतः प्रज्वलन्ब्रह्मतेजसा
सूर्य्यस्य वचनं श्रुत्वा द्विजस्तुष्टो बभूव ह 2.46.
तत्याज मनसां विप्रः प्रतिज्ञापालनाय च
सा सस्मार गुरुं शम्भुमिष्टदेवं हरिं विधिम्
तत्राजगाम भगवान्गोपीशः शम्भुरेव च
स च दृष्ट्वाऽभीष्टदेवं निगुणे प्रकृतेः परम्
नमश्चकार शम्भुं च ब्रह्माणं कश्यपं तथा
ब्रह्मा तद्वचनं श्रुत्वा सहसा समयोचितम्
यदि त्यक्ता धर्मपत्नी धर्मिष्ठा मनसा सती
यतिर्वा ब्रह्मचारी वा भिक्षुर्वनचरोऽपि वा
अकृत्वा तु सुतोत्पत्तिं विरागी यस्त्यजेत्प्रियाम्
ब्रह्मणो वचनं श्रुत्वा जरत्कारुर्मुनीश्वरः 2.46.
तस्यै शुभाशिषं दत्त्वा ययुर्देवा मुदाऽन्विताः
मुनेः करस्पर्शमात्रात्सद्यो गर्भो बभूव ह
जरत्कारुरुवाच जितेन्द्रियाणां प्रवरो धर्मिष्ठो वैष्णवाग्रणीः
तेजस्वी च तपस्वी च यशस्वी च गुणान्वितः
स च पुत्रो विष्णुभक्तो धार्मिकः कुलमुद्धरेत्
पतिव्रता सुशीला या सप्रिया प्रियवादिनी
हरिभक्तिप्रदो बन्धुस्तदिष्टं यत्सुखप्रदम्
सा गर्भधारिणी या च गर्भवासविमोचिनी
गुरुश्च ज्ञानदाता च तज्ज्ञानं कृष्णभावनम्
आविर्भूतं तिरोभूतं किं वा ज्ञानं तदन्यतः 2.46.
तत्त्वानां सारभूतं च हरेरन्यद्विडम्बनम्
ज्ञानात्प्रमुच्यते बन्धात्स रिपुर्यो हि बन्धदः
स रिपुः शिष्यघाती च यतो बन्धान्न मोचयेत्