कुमारी सा च संभूय चागमच्छङ्करालयम्
दिव्यं वर्षसहस्रं च तं सिषेवे मुनेः सुता
महाज्ञानं ददौ तस्यै पाठयामास साम च
लक्ष्मीमायाकामबीज ङेन्तं कृष्णपदं तथा त्रैलोक्यमङ्गलं नाम कवचं पूजनक्रमम्
स्तवनं सर्वपूज्यं च ध्यानं भुवनपावनम्
प्राप्य मृत्युञ्जयाज्ज्ञानं परं मृत्युञ्जयं सती
त्रियुगं च तपस्तप्त्वा कृष्णस्य परमात्मनः 2.46.
दृष्ट्वा कृशाङ्गीं बालां च कृपया च कृपानिधिः
वरं च प्रददौ तस्यै पूजिता त्वं भवे भव
प्रथमे पूजिता सा च कृष्णेन परमात्मना
मनुना मुनिना चैव ह्यहिना मानवादिना
जरत्कारुमुनीन्द्राय कश्यपस्तां ददौ पुरा
कृत्वोद्वाहं महायोगी विश्रान्तस्तपसा चिरम्
निद्रां जगाम स मुनिः स्मृत्वा निद्रेशमीश्वरम्
संचिन्त्य मनसा तत्र मनसा च पतिव्रता
अकृत्वा पश्चिमां सन्ध्यां नित्यां चैव द्विजन्मनाम्
नोपतिष्ठति यः पूर्वां नोपास्ते यश्च पश्चिमाम् 2.46.
वेदोक्तमिति संचिन्त्य बोधयामास तं मुनिम्
जरत्कारुरुवाच व्यर्थं व्रतादिकं तस्या या भर्त्तुश्चापकारिणी
तपश्चानशनं चैव व्रतं दानादिकं च यत्
यया पतिः पूजितश्च श्रीकृष्णः पूजितस्तया
सर्वदानं सर्वयज्ञः सर्वतीर्थनिषेवणम्
सर्वधर्मश्च सत्यं च सर्वदेवप्रपूजनम्
सुपुण्ये भारते वर्षे पतिसेवा करोति या
विप्रियं कुरुते भर्तुर्विप्रियं वदति प्रियम्
कुम्भीपाकं व्रजेत्सा च यावच्चन्द्रदिवाकरौ
इत्युक्त्वा च मुनिश्रेष्ठो बभूव स्फुरिताधरः 2.46.
मनसोवाच कुरु शान्तिं महाभाग दुष्टाया मम सुव्रत
शृङ्गाराहारनिद्राणां यश्च भङ्गं करोति च
इत्युक्त्वा मनसा देवी स्वामिनश्चरणाम्बुजे