देव्याश्च मंगलस्तोत्रं यः शृणोति समाहितः
प्रथमे पूजिता देवी शम्भुना सर्वमंगला
तृतीये पूजिता भद्रा मंगलेन नृपेण च पञ्चमे मङ्गलाकांक्षैर्नरैर्मंगलचण्डिका
पूजिता प्रतिविश्वेषु विश्वेशैः पूजिता सदा
देवादिभिश्च मुनिभिर्मनुभिर्मानवैर्मुने 2.44.
तन्मंगलं भवेच्छश्वन्न भवेत्तदमंगलम्
इति श्रीब्रह्मवैवर्त्ते महापुराणे द्वितीये प्रकृतिखण्डे नारदनारायणसंवादे मङ्गलोपाख्याने तत्स्तोत्रादिकथनं नाम चतुश्चत्वारिंशत्तमोऽध्यायः
नारायण उवाच श्रूयतां मनसाख्यानं यच्छ्रुतं धर्मवक्त्रतः
कन्या भगवती सा च कश्यपस्य च मानसी
मनसा ध्यायते या वा परमात्मानमीश्वरम्
आत्मारामा च सा देवी वैष्णवी सिद्धयोगिनी
जरत्कारुशरीरं च दृष्ट्वा यां क्षणमीश्वरः
वाञ्छितं च ददौ तस्यै कृपया च कृपानिधिः
स्वर्गे च नागलोके च पृथिव्यां बह्मलोकतः
जगद्गौरीति विख्याता तेन सा पूजिता सती
विष्णुभक्ताऽतीव रम्या वैष्णवी तेन नारद
नागेश्वरीति विख्याता सा नागभगिनी तथा 2.45.१
महाज्ञानयुतां तां च प्रवदन्ति मनीषिणः
आस्तीकमाता विख्याता जरत्कारुरिति स्म सा
योगिनो विश्वपूज्यस्य जरत्कारोः प्रिया ततः
ॐ नमो मनसायै वैष्णवी नागभगिनी शैवी नागेश्वरी तथा
जरत्कारुप्रियाऽऽस्तीकमाता विषहरीति च
द्वादशैतानि नामानि पूजाकाले च यः पठेत्
नागभीदे च शयने नागग्रस्ते च मन्दिरे
इदं स्तोत्रं पठित्वा तु मुच्यते नात्र संशयः
दशलक्षजपेनैव स्तोत्रसिद्धिर्भवेन्नृणाम् 2.45.
नागौघं भूषणं कृत्वा स भवेन्नागवाहनः
इति श्रीब्रह्मवैवर्त्ते महापुराणे द्वितीये प्रकृतिखण्डे नारदनारायणसंवादे मनसोपाख्याने मनसास्तोत्रादिक थनं नाम पञ्चचत्वारिंशत्तमोऽध्यायः
नारायण उवाच ध्यानं च सामवेदोक्तं देवीपूजाविधानकम्
श्वेतचम्पकवर्णाभां रत्नभूषणभूषिताम्