मूर्त्तिभेदेन सा दुर्गा मूलप्रकृतिरीश्वरी
प्रथमे पूजिता सा च शङ्करेण पुरा परा
ब्रह्मन्ब्रह्मोपदेशेन दुर्गप्रस्थे च सङ्कटे
ब्रह्मविष्णूपदिष्टश्च दुर्गां तुष्टाव शङ्करः
उवाच पुरतः शम्भोर्भयं नास्तीति ते प्रभो 2.44.
युद्धशक्तिस्वरूपाऽहं भविष्यामि तदाज्ञया
जहि दैत्यं च देवेश सुराणां पदघातकम्
विष्णुदत्तेन शस्त्रेण जघान तमुमापतिः
तुष्टुवुः शंकरं देवा भक्तिनम्रात्मकन्धराः
ब्रह्मा विष्णुश्च सन्तुष्टो ददौ तस्मै शुभाशिषम्
पूजयामास तां शक्तिं देवीं मङ्गलचण्डिकाम्
पुष्पचन्दननैवेद्यैर्भक्त्या नानाविधैर्मुने
वस्त्रालङ्कारमाल्यैश्च पायसैः पिष्टकैरपि
सङ्गीतैर्नर्त्तनैर्वाद्यैरुत्सवैः कृष्णकीर्त्तनैः
ददौ द्रव्याणि मूलेन मन्त्रेणैव च नारद ऐं क्रूं फट्स्वाहेत्येवं चाप्येकविंशाक्षरो मनुः 2.44.
पूज्यः कल्पतरुश्चैव भक्तानां सर्वकामदः
मन्त्रसिद्धिर्भवेद्यस्य स विष्णुः सर्वकामदः
देवीं षोडशवर्षीयां रम्यां सुस्थिरयौवनाम्
श्वेतचम्पकवर्णाभां चन्द्रकोटिसमप्रभाम्
बिभ्रतीं कबरीभारं मल्लिकामाल्यभूषितम्
ईषद्धास्यप्रसन्नास्यां सुनीलोत्पललोचनाम्
संसारसागरे घोरे पोतरूपां वरां भजे
देव्याश्च ध्यानमित्येवं स्तवनं श्रूयतां मुने
शङ्कर उवाच संहर्त्रि विपदां राशेर्हर्षमंगलकारिके
हर्षमंगलदक्षे च हर्षमंगलचण्डिके 2.44.
मंगले मङ्गलार्हे च सर्वमंगलमंगले
पूज्या मंगलवारे च मंगलाभीष्टदैवते
मंगलाधिष्ठातृदेवि मंगलानां च मंगले
सारे च मंगलाधारे पारे त्वं सर्वकर्मणाम्
स्तोत्रेणानेन शम्भुश्च स्तुत्वा मगलचण्डिकाम्