बालानां सूतिकागारे षष्ठाहे यत्नपूर्वकम्
बालानां शुभकार्ये च शुभान्नप्राशने तथा
ध्यानं पूजाविधानं च स्तोत्रं मत्तो निशामय
शालग्रामे घटे वाऽथ वटमूलेऽथवा मुने
षष्ठांशां प्रकृतेः शुद्धां सुप्रतिष्ठां च सुव्रताम्
श्वेतचम्पकवर्णाभां रत्नभूषणभूषिताम् 2.43.
इति ध्यात्वा स्वशिरसि पुष्पं दत्त्वा विचक्षणः
पाद्यार्घ्याचमनीयैश्च गन्धधूपप्रदीपकैः
मूलमों ह्रीं षष्ठीदेव्ये स्वाहेति विधिपूर्वकम्
तत्र स्तुत्वा च नमते भक्तियुक्तः समाहितः
अष्टाक्षरं महामन्त्रं लक्षधा यो जपेन्मुने
स्तोत्रं शृणु मुनिश्रेष्ठ सर्वेषां च शुभावहम्
प्रियव्रत उवाच सुखादायै मोक्षदायै षष्ठीदेव्यै नमो नमः
वरदायै पुत्रदायै धनदायै नमो नमः
पारायै पारदायै च षष्ठीदेव्यै नमो नमः 2.43.
बालाधिष्ठातृदेव्यै च षष्ठी देव्यै नमो नमः
प्रत्यक्षायै च भक्तानां षष्ठीदेव्यै नमो नमः ।। पूज्यायै स्कन्दकान्तायै सर्वेषां सर्वकर्मसु
देवरक्षणकारिण्यै षष्ठीदेव्यै नमो नमः
हिंसाक्रोधैर्वर्जितायै षष्ठीदेव्यै नमो नमः
धर्मं देहि यशो देहि षष्ठीदेव्यै नमो नमः
कल्याणं च जयं देहि षष्ठीदेव्यै नमो नमः
यशस्विनं च राजेन्द्रं षष्ठीदेवीप्रसादतः
अपुत्रो लभते पुत्रं वरं सुचिरजीविनम्
सुचिरायुष्मन्तमेव षष्ठीमातृप्रसादतः 2.43.
वर्षं श्रुत्वा लभेत्पुत्रं षष्ठीदेवीप्रसादतः
नारायण उवाच देवी मङ्गलचण्डी च तदाख्यानं निशामय
तस्याः पूजादिकं सर्वं धर्मवक्त्राच्च यच्छ्रुतम्
चण्डायां वर्त्तते चण्डी जाग्रती शत्रुमण्डले
दुर्गायां विद्यते चण्डी मङ्गलोऽपि महीसुते
मंगलो मनुवंशश्च सप्तद्वीपावनीपतिः