देवसेनोवाच। ब्रह्मणो मानसी कन्या देवसेनाऽहमीश्वरी
मातृकासु च विख्याता स्कन्दसेना च सुव्रता
पुत्रदाऽहमपुत्राय प्रियदात्री प्रियाय च
सुखं दुःखं भयं शोकं हर्षं मंगलमेव च
कर्मणा बहुपुत्री च वंशहीनश्च कर्मणा
कर्मणा मृतपुत्रश्च कर्मणा चिरजीविनः 2.43.
तस्मात्कर्म परं राजन्सर्वेभ्यश्च श्रुतौ श्रुतम्
इत्येवमुक्त्वा सा देवी गृहीत्वा बालकं मुने
राजा ददर्श तं बालं सस्मितं कनकप्रभम्
गृहीत्वा बालकं देवी गगनं गन्तुमुद्यता
नृपस्तोत्रेण सा देवी परितुष्टा बभूव ह
देवसेनोवाच मम पूजां च सर्वत्र कारयित्वा स्वयं कुरु
तदा दास्यामि पुत्रं ते कुलपद्मं मनोहरम्
जातिस्मरं च योगीन्द्रं नारायणपरायणम्
मत्तमातङ्गलक्षाणां धृतवन्तं बलं शुभम्
योगिनं ज्ञानिनं चैव सिद्धरूपं तपस्विनम् 2.43.
इत्येवमुक्त्वा सा देवी तस्मै तद्बालकं ददौ
जगाम देवी स्वर्गं च दत्त्वा तस्मै शुभं वरम् आगत्य कथयामास वृत्तान्तं पुत्रहेतुकम्
तुष्टा बभूवुः सन्तुष्टा नरा नार्यश्च नारद । देवीं च पूजयामास ब्राह्मणेभ्यो धनं ददौ
राजा च प्रतिमासेषु शुक्लषष्ठ्यां महोत्सवम्
बालानां सूतिकागारे षष्ठाहे यत्नपूर्वकम्
बालानां शुभकार्ये च शुभान्नप्राशने तथा
ध्यानं पूजाविधानं च स्तोत्रं मत्तो निशामय
शालग्रामे घटे वाऽथ वटमूलेऽथवा मुने
षष्ठांशां प्रकृतेः शुद्धां सुप्रतिष्ठां च सुव्रताम्
श्वेतचम्पकवर्णाभां रत्नभूषणभूषिताम् 2.43.
इति ध्यात्वा स्वशिरसि पुष्पं दत्त्वा विचक्षणः
पाद्यार्घ्याचमनीयैश्च गन्धधूपप्रदीपकैः
मूलमों ह्रीं षष्ठीदेव्ये स्वाहेति विधिपूर्वकम्
तत्र स्तुत्वा च नमते भक्तियुक्तः समाहितः