शङ्कर उवाच प्राणांश्च न समर्थोऽहं प्रदातुं शरणागतम्
यो ददाति भयेनैव प्रपन्नं शरणागतम् 1.9.
सर्वं त्यक्तुं समर्थोऽहं न स्वधर्मं जगत्प्रभो
यश्च धर्मं सदा रक्षेद्धर्मस्तं परिरक्षति
त्वं सर्वमाता स्रष्टा च हन्ता च परिणामतः
शङ्करस्य वचः श्रुत्वा भगवान्सर्वभाववित्
प्रतस्थावर्द्धचन्द्रश्च निर्व्याधिः शिवशेखरे
यक्ष्मग्रस्तं च तं दृष्ट्वा दक्षस्तुष्टाव माधवम्
कृष्णस्तेभ्यो वरं दत्त्वा जगाम स्वालयं द्विज
चन्द्रस्ताश्च परिप्राप्य विजहार दिवानिशम्
इत्येवं कथितं सर्वं किञ्चित्सृष्टिक्रमं मुने
सौतिरुवाच क्रतोरपि क्रिया भार्य्या वालखिल्यानसूयत
त्रयः पुत्राश्चाङ्गिरसो बभूवुर्मुनिसत्तमाः
वसिष्ठस्य सुतः शक्तिः शक्तेः पुत्रः पराशरः
व्यासपुत्रः शिवांशश्च शुकश्च ज्ञानिनां वरः
शौनक उवाच न बुद्धं वचनं किंचिद्धनेशोत्पत्तिपूर्वकम्
अधुना कथितं जन्म धनेशस्येश्वरादिदम्
सौतिरुवाच पुनश्च ब्रह्मशापेन स च विश्वश्रवस्सुतः
गुरवे दक्षिणां दातुमुतथ्यश्च धनेश्वरम्
धनेशो विरसो भूत्वा तस्मै तद्दातुमुद्यतः
तेन विश्रवसः पुत्रः कुबेरश्च धनाधिपः 1.10.
पुलहस्य सुतो वात्स्यः शाण्डिल्यश्च रुचेः सुतः
काश्यपः कश्यपाज्जातो भरद्वाजो बृहस्पतेः
शाण्डिल्यश्च रुचेः पुत्रो मुनिस्तेजस्विनां वरः
बभूवुर्ब्रह्मणो वक्त्रादन्या ब्राह्मणजातयः
चन्द्रादित्यमनूनां च प्रवराः क्षत्रियाः स्मृताः
ऊरुदेशाच्च वैश्याश्च पादतः शूद्रजातयः
गोपनापितभिल्लाश्च तथा मोदककूबरौ
इत्येवमाद्या विप्रेन्द्र सच्छूद्राः परिकीर्त्तिताः
विश्वकर्मा च शूद्रायां वीर्य्याधानं चकार सः