मातृकासु च विख्याता देवसेनाभिधा च सा
आयुःप्रदा च बालानां पात्री रक्षणकारिणी
तस्याः पूजाविधौ ब्रह्मन्नितिहासविधिं शृणु
राजा प्रियव्रतश्चासीत्स्वायम्भुव मनोः सुतः
ब्रह्माज्ञया च यत्नेन कृतदारो बभूव सः
पुत्रेष्टियज्ञं तं चापि कारयामास कश्यपः 2.43.
भुक्त्वा चरुं च तस्याश्च सद्यो गर्भो बभूव ह
ततः सुषाव सा ब्रह्मन्कुमारं कनकप्रभम्
तं दृष्ट्वा रुरुदुः सर्वा नार्य्यो वै बान्धवस्त्रियः
श्मशानं च ययौ राजा गृहीत्वा बालकं मुने
नोत्सृज्य बालकं राजा प्राणांस्त्यक्तुं समुद्यतः
एतस्मिन्नन्तरे तत्र विमानं च ददर्श ह
तेजसा ज्वलितं शश्वच्छोभितं क्षौमवाससा
ददर्श तत्र देवीं च कमनीयां मनोहराम्
ईषद्धास्यप्रसन्नास्यां रत्नभूषणभूषिताम्
दृष्ट्वा तां पुरतो राजा तुष्टाव परमादरात् 2.43.
पप्रच्छ राजा तां दृष्ट्वा ग्रीष्मसूर्य्यसमप्रभाम्
प्रियव्रत उवाच कस्य कन्या वरारोहे धन्या मान्या च योषिताम्
नृपेन्द्रस्य वचः श्रुत्वा जगन्मङ्गलदायिनी
देवानां दैत्यभीतानां पुरा सेना बभूव सा
देवसेनोवाच। ब्रह्मणो मानसी कन्या देवसेनाऽहमीश्वरी
मातृकासु च विख्याता स्कन्दसेना च सुव्रता
पुत्रदाऽहमपुत्राय प्रियदात्री प्रियाय च
सुखं दुःखं भयं शोकं हर्षं मंगलमेव च
कर्मणा बहुपुत्री च वंशहीनश्च कर्मणा
कर्मणा मृतपुत्रश्च कर्मणा चिरजीविनः 2.43.
तस्मात्कर्म परं राजन्सर्वेभ्यश्च श्रुतौ श्रुतम्
इत्येवमुक्त्वा सा देवी गृहीत्वा बालकं मुने
राजा ददर्श तं बालं सस्मितं कनकप्रभम्
गृहीत्वा बालकं देवी गगनं गन्तुमुद्यता