राजसूये वाजपेये गोमेधे नरमेधके
धनदे भूमिदे फल्गौ पुत्रेष्टौ गजमेधके
शिवयजे रुद्रयज्ञे शक्रयज्ञे च बन्धके
शुचियागे धर्मयागे रेचने पापमोचने
एतेषां च समारम्भे इदं स्तोत्रं च यः पठेत्
इदं स्तोत्रं च कथितं ध्यानं पूजाविधानकम्
लक्ष्मीदक्षांशसम्भूतां दक्षिणां कमलाकलाम् 2.42.
विष्णोःशक्तिस्वरूपां च सुशीलां शुभदां भजे
दत्त्वा पाद्यादिकं देव्यै वेदोक्तेन च नारद
पूजयेद्विधिवद्भक्त्या दक्षिणां सर्वपूजिताम्
सुखदं प्रीतिदं चैव फलदं सर्वकर्मणाम्
अंगहीनं च तत्कर्म न भवेद्भारते भुवि
भार्य्याहीनो लभेद्भार्य्यां सुशीलां सुन्दरीं पराम्
पतिव्रतां सुव्रतां च शुद्धां च कुलजां वराम्
भूमिहीनो लभेद्भूमिं प्रजाहीनो लभेत्प्रजाः
मासमेकमिदं श्रुत्वा मुच्यते नात्र संशयः
नारद उवाच अन्यासां चरितं ब्रह्मन्वद वेदविदां वर
नारायण उवाच पूर्वोक्तानां च देवीनां त्वं कासां श्रोतुमिच्छसि
नारद उवाच उत्पत्तिमासां चरितं श्रोतुमिच्छामि तत्त्वतः
नारायण उवाच बालकाधिष्ठातृदेवी विष्णुमाया च बालदा
मातृकासु च विख्याता देवसेनाभिधा च सा
आयुःप्रदा च बालानां पात्री रक्षणकारिणी
तस्याः पूजाविधौ ब्रह्मन्नितिहासविधिं शृणु
राजा प्रियव्रतश्चासीत्स्वायम्भुव मनोः सुतः
ब्रह्माज्ञया च यत्नेन कृतदारो बभूव सः
पुत्रेष्टियज्ञं तं चापि कारयामास कश्यपः 2.43.
भुक्त्वा चरुं च तस्याश्च सद्यो गर्भो बभूव ह
ततः सुषाव सा ब्रह्मन्कुमारं कनकप्रभम्
तं दृष्ट्वा रुरुदुः सर्वा नार्य्यो वै बान्धवस्त्रियः
श्मशानं च ययौ राजा गृहीत्वा बालकं मुने