पातयेत्पुरुषान्सप्त पूर्वान्वै पूर्वजन्मनः
नारद उवाच पूजाविधिं दक्षिणायाः पुरा यज्ञकृतं वद
नारायण उवाच सदक्षिणे कर्मणि च फलमेव प्रवर्त्तते
या या कर्मणि सामग्री बलिर्भुङ्क्ते च तां मुने
अश्रोत्रियं श्राद्धवस्तु चाश्राद्धं दानमेव च
ऋत्विजा न कृतं यज्ञमशुचेः पूजनं च यत्
दक्षिणायाश्च यद्ध्यानं स्तोत्रं पूजाविधिक्रमम् 2.42.
पुरा संप्राप्य तां यज्ञः कर्मदक्षां च दक्षिणाम्
यज्ञ उवाच राधासमा तत्सखी च श्रीकृष्णप्रेयसी प्रिये
कार्त्तिकीपूर्णिमायां तु रासे राधामहोत्सवे
पुरा त्वं च सुशीलाख्या शीलेन सुशुभेन च
गोलोकात्त्वं परिध्वस्ता मम भाग्यादुपस्थिता
कर्तॄणां कर्मणां देवी त्वमेव फलदा सदा
फलशाखाविहीनश्च यथा वृक्षो महीतले
ब्रह्मविष्णुमहेशाश्च दिक्पालादय एव च
कर्मरूपी स्वयं ब्रह्मा फलरूपी महेश्वरः
फलदाता परं ब्रह्म निर्गुणः प्रकृतेः परः 2.42.
त्वमेव शक्तिः कान्ते मे शश्वज्जन्मनि जन्मनि
इत्युक्त्वा तत्पुरस्तस्थौ यज्ञाधिष्ठातृदेवकः
इदं च दक्षिणास्तोत्रं यज्ञकाले च यः पठेत्
राजसूये वाजपेये गोमेधे नरमेधके
धनदे भूमिदे फल्गौ पुत्रेष्टौ गजमेधके
शिवयजे रुद्रयज्ञे शक्रयज्ञे च बन्धके
शुचियागे धर्मयागे रेचने पापमोचने
एतेषां च समारम्भे इदं स्तोत्रं च यः पठेत्
इदं स्तोत्रं च कथितं ध्यानं पूजाविधानकम्
लक्ष्मीदक्षांशसम्भूतां दक्षिणां कमलाकलाम् 2.42.
विष्णोःशक्तिस्वरूपां च सुशीलां शुभदां भजे
दत्त्वा पाद्यादिकं देव्यै वेदोक्तेन च नारद
पूजयेद्विधिवद्भक्त्या दक्षिणां सर्वपूजिताम्