कस्तूरीबिन्दुभिः सार्द्धं चन्दनैश्च सुगन्धिभिः
सुप्रशस्तनितम्बाढ्यां बृहच्छ्रोणिपयोधराम्
तां दृष्ट्वा रमणीयां च यज्ञो मूर्च्छामवाप ह
दिव्यं वर्षशतं चैव तां गृहीत्वाऽथ निर्जने
गर्भं दधार सा देवी दिव्यं द्वादशवत्सरम्
कर्मणां फलदाता च दक्षिणा कर्मणां सताम्
यज्ञो दक्षिणया सार्द्धं पुत्रेण च फलेन च 2.42.
यज्ञश्च दक्षिणां प्राप्य पुत्रं च फलदायकम्
तदा देवादयस्तुष्टाः परिपूर्णमनोरथाः
कृत्वा कर्म च कर्ता तु तूर्णं दद्याच्च दक्षिणाम्
कर्ता कर्मणि पूर्णेऽपि तत्क्षणाद्यदि दक्षिणाम्
मुहूर्त्ते समतीते च द्विगुणा सा भवेद्ध्रुवम्
एकरात्रे व्यतीते तु भवेद्रसगुणा च सा
मासे लक्षगुणा प्रोक्ता ब्राह्मणानां च वर्द्धते
कर्म्म तद्यजमानानां सर्वं वै निष्फलं भवेत्
दरिद्रो व्याधियुक्तश्च तेन पापेन पातकी
पितरो नैव गृह्णन्ति तद्दत्तं श्राद्धतर्पणम् 2.42.
दाता ददाति नो दानं ग्रहीता तन्न याचते
नार्पयेद्यजमानश्चेद्याचितारं च दक्षिणाम्
वर्षलक्षं वसेत्तत्र यमदूतेन ताडितः
पातयेत्पुरुषान्सप्त पूर्वान्वै पूर्वजन्मनः
नारद उवाच पूजाविधिं दक्षिणायाः पुरा यज्ञकृतं वद
नारायण उवाच सदक्षिणे कर्मणि च फलमेव प्रवर्त्तते
या या कर्मणि सामग्री बलिर्भुङ्क्ते च तां मुने
अश्रोत्रियं श्राद्धवस्तु चाश्राद्धं दानमेव च
ऋत्विजा न कृतं यज्ञमशुचेः पूजनं च यत्
दक्षिणायाश्च यद्ध्यानं स्तोत्रं पूजाविधिक्रमम् 2.42.
पुरा संप्राप्य तां यज्ञः कर्मदक्षां च दक्षिणाम्
यज्ञ उवाच राधासमा तत्सखी च श्रीकृष्णप्रेयसी प्रिये
कार्त्तिकीपूर्णिमायां तु रासे राधामहोत्सवे